धर्मज्ञो रुद्रभक्तश्च सर्वविद्यार्थपारगः
वेदाध्ययनसंयुक्तो च भैक्षवृत्तिर्जितेंद्रियः
मृतः काले समृद्धेन सर्वभोगावलंबिना
गुह्यकोनाम रुद्रस्य गणः परमसंमतः
तेषां च समतां याति तुल्यैश्वर्यसम न्वितः ।। देवदानवमर्त्येषु स च पूज्यतमो भवेत
वर्षकोटिसहस्राणि वर्षकोटिशतानि च
वसित्वासौ विभूत्या वै यदा च च्यवते नरः
महाकालवने क्षेत्रे ब्रह्मचर्याश्रमे स्थितः
मृतोऽसौ याति दिव्ये वै विमाने सूर्यवर्चसि 5.1.7.
रुद्रलोकं समासाद्य गुह्यकैः सह मोदते
भुक्त्वा युगसहस्राणि रुद्रलोके महीयते
नित्यं प्रमुदितस्तत्र भुक्त्वा लोकमनामयम्
स्पृहणीयवपुः स्त्रीणां महाभोगपतिर्भवेत्
वानप्रस्थसमाचारो वनौषधिविवर्जितः
कणाशनोऽश्मकुट्टो वा दंतोलूखलकोऽथ वा
जटी त्रिषवणस्नायी मुक्तकेशः सुदंडवान्
कीटकंटकपाषाणभूम्यां तु शयनं तथा
अरण्यौषधिभोक्ता च सर्वभूताभयप्रदः
रुद्रभक्तः क्षेत्रवासी महाकालवने मुनिः 5.1.7.
यश्चात्र वसते व्यास शृणु तस्य हि या गतिः
रुद्रभक्तो विमानेन याति कामप्रचारिणा
गीतवादित्रशब्देन संवृतोऽप्सरसां गणै
रुद्रलोकाच्च्युतश्चापि विष्णुलोके महीयते
तस्मादपि च्युतः स्थानाद्द्वीपेषु स हि जायते
भुक्तैश्वर्यो नरस्तेषु मर्त्यामर्त्येषु जायते सुरूपः सुभगः कांतः कीर्तिमान्रुद्रभावितः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा क्षेत्रवासिनः
सर्वात्मना रुद्रभक्ता भूतानुग्रहकारिणः
मृतास्ते रुद्रभवने विमानैर्यांति शोभनैः
अथवा संविदग्नौ च शरीरं विजुहोति यः 5.1.7.
रुद्रलोकोऽक्षयस्तेषां शाश्वतो गुह्यकैः सह