कारणं तच्च रुद्रस्य काम्य त्वमिदमुच्यते
अचैतन्यं प्रधाने च तच्च तत्त्वमिदं स्मृतम्
प्रयोजने च वैजात्यं ज्ञात्वा तत्त्वमसंख्यया
इति तस्य तत्त्वभावं तत्त्वसंख्या च तत्त्वतः
सांख्ये कृता भक्तिरेषा सद्भिराध्यात्मिकी मता
प्राणायामपरो नित्यं ध्यायते नियतेंद्रियः
हृत्कञ्जकर्णिकासीनं पञ्चवक्त्रं त्रिलोचनम्
श्वेतं दशभुजं भद्रं वरदाभयहस्तकम्
य एव भक्तिमान्रुद्रे रुद्रभक्तः स उच्यते 5.1.7.
स्वयं रुद्रेण विहितो ब्रह्मादीनां समागमे
निर्ममा निरहंकारा निःसंगा निष्परिग्रहाः
भूतानां कर्मभिर्नित्यं त्रिविधैरभयप्रदाः
यजंतो विवि धैर्यज्ञैर्ये विप्राः क्षेत्रवासिनः
व्रजंत्येव सुदुष्प्राप्यं ब्रह्मसायुज्यमक्षयम्
पुनरावर्तनं हित्वा विधिं माहेश्वरं स्थिताः
गार्हस्थ्यं विधिमासाद्य षट्कर्मनिरताः सदा
अधिकं फलमायांति सर्वदुःखविवर्जिताः
दिव्येनैश्वर्ययोगेन स्वारूढः स्वपरिग्रहः
वृतः स्त्रीणां सहस्रैश्च स्वच्छंदगमनालयः 5.1.7.
स्पृहणीयतमः पुंसां सर्ववर्णोत्तमो धनी
धर्मज्ञो रुद्रभक्तश्च सर्वविद्यार्थपारगः
वेदाध्ययनसंयुक्तो च भैक्षवृत्तिर्जितेंद्रियः
मृतः काले समृद्धेन सर्वभोगावलंबिना
गुह्यकोनाम रुद्रस्य गणः परमसंमतः
तेषां च समतां याति तुल्यैश्वर्यसम न्वितः ।। देवदानवमर्त्येषु स च पूज्यतमो भवेत
वर्षकोटिसहस्राणि वर्षकोटिशतानि च
वसित्वासौ विभूत्या वै यदा च च्यवते नरः
महाकालवने क्षेत्रे ब्रह्मचर्याश्रमे स्थितः
मृतोऽसौ याति दिव्ये वै विमाने सूर्यवर्चसि 5.1.7.
रुद्रलोकं समासाद्य गुह्यकैः सह मोदते