किं मनुष्यैरुत स्त्रीभिः सिद्ध्यर्थं ह्याश्रमान्वितैः
नरैः स्त्रीभिश्च वस्तव्यं वर्णैश्चाश्रमवासिभिः
कर्मणा मनसा वाचा रुद्रभक्तैर्यतेन्द्रियैः किं कुर्वाणैर्नरैः कर्म रुद्रभक्तिं ब्रवीहि नः
लौकिकी वैदिकी चान्या भवेदाध्यात्मिकी तथा
ध्यानधारणया बुद्ध्या रुद्राणां स्मरणं हि तत्
व्रतोपवासनियमैर्यतेद्रियनिरोधिभिः
गोघृतक्षीरदधिभिर्गंधरक्तकुशो दकैः
घृतगुग्गुलधूपैश्च कृष्णागरुसुगंधिभिः
वासप्रविसरास्तोत्रैः पताकाव्यजनोच्छ्रितैः 5.1.7.
भक्ष्यभोज्यानुपानैश्च यावत्पूजाक्षतैर्नरैः
वेदमन्त्रहविर्यागैर्या क्रिया वैदिकी मता
दर्शे च पूर्णमास्यां वा कर्तव्यं चाग्निहोत्रकम्
इष्टवृत्तिः सोमपानं याज्ञिकं सर्वकर्म च
अग्निभूम्यनिलाकाशनिशाकरदिवाकरान्
समुद्दिश्य कृतं कर्म तत्सर्वं दैविकं भवेत्
सांख्याख्या यौगिकी चान्या विभागं तत्र मे शृणु
अचेतनानि योज्यानि पुरुषः पञ्चविंशकः
रुद्रः षड्विंशकः कर्ता सर्वज्ञश्चेतनः प्रभुः
पुरुषो नित्यव्यक्तः स्यात्कारणं च महेश्वरः 5.1.7.
संख्यया परिसर्गाय प्रधानं च गुणात्मकम्
कारणं तच्च रुद्रस्य काम्य त्वमिदमुच्यते
अचैतन्यं प्रधाने च तच्च तत्त्वमिदं स्मृतम्
प्रयोजने च वैजात्यं ज्ञात्वा तत्त्वमसंख्यया
इति तस्य तत्त्वभावं तत्त्वसंख्या च तत्त्वतः
सांख्ये कृता भक्तिरेषा सद्भिराध्यात्मिकी मता
प्राणायामपरो नित्यं ध्यायते नियतेंद्रियः
हृत्कञ्जकर्णिकासीनं पञ्चवक्त्रं त्रिलोचनम्
श्वेतं दशभुजं भद्रं वरदाभयहस्तकम्
य एव भक्तिमान्रुद्रे रुद्रभक्तः स उच्यते 5.1.7.
स्वयं रुद्रेण विहितो ब्रह्मादीनां समागमे