महता तनुसाध्येन बहुकालार्जितेन वः
ऊचुरुन्नाम्य वक्त्राणि स्थिता जानुभिरीश्वरम्
तदस्माकं प्रवृत्तानां मानुषाणां वरप्रद
रक्षां कुरुष्व देवेश भक्तानामभयंकर
सुदुर्लभान्यपि पुनर्दास्यामि वो वरान्बहून् ।। 5.1.6.
एवमुक्ते भगवता ब्रह्मा वचनमब्रवीत्
प्राप्ता वयं च भगवन्सुपर्याप्तो महावरः
शिव उवाच लोकेऽस्मिन्मम ये भक्ता मया विनिहताश्च ये
सार्धं तत्र जटाजूटैः शिरोभिः शूलपाणयः
येषां विनिग्रहार्थाय युष्मत्संबोधनाय च
कृतो मेऽनुग्रहस्तेषां भक्तानां भक्तिमिच्छताम्
महाकालवने देवा आगतस्य ममानघाः
नामद्वययुतं गुह्यं लोके ख्यातं भविष्यति
कपालव्रतचर्या च मया ह्येषा प्रकीर्तिता
कपालपाणिः संतुष्टो भिक्षा व्रतसमन्वितः 5.1.6.
नंदितः सर्वभूतेषु प्रियाप्रियसमः सदा
जितेंद्रियोऽसर्वसंगो मृद्भस्मोदकसंग्रही
पुण्यतीर्थाश्रमोपेतः स्वरे देवे समाहितः
कपालव्रतमास्थाय पुरा चीर्णं मया स्वयम्
कपालव्रतमेतद्धि दुर्धरं परमाद्भुतम्
महाव्रतं द्विषन्मोहात्पापेनैव स्थितो नरः
महापाशुपतं तस्मान्न हन्यान्न च दूषयेत्
एवं महाव्रतं यस्तु भोजयेच्छ्रद्धयान्वितः
कपालपूरणीं भिक्षां यतीनां यः प्रयच्छति
कपाले भोजनं श्रेष्ठं मार्गोऽयं ब्रह्मसंभवः 5.1.6.
इत्यादिदुष्टदोषश्च तस्य संभाषणादपि 5.1.6.
दृष्ट्वा च शिष्टमथ ३ महाव्रतधरो नरः
एतत्कृतयुगे सर्वं प्रत्यक्षं दृश्यते वने 5.1.6.
पठति य इह लोके तस्य संस्थानमेतत्प्रथितगुणगणौघैरर्चितं दोषहं तत्
रुद्रलोकमभीप्सद्भिर्वस्तव्यं क्षेत्रवासिभिः