स्वयंप्रभैश्च तेजोभिर्महद्भिः पुण्यकर्मभिः
सपुण्यपुष्पवर्षं च वायुयुक्तं महाजवम्
शरयूसलिलं रामः पद्भ्यां स समुपास्पृशत्
त्वं हि लोकपतिर्देव न त्वां जानाति कश्चन
त्वमचिंत्यं महद्भूतमक्षयं लोकसंग्रहे 2.8.6.
पितामहस्य वचनादिदमेवाविशत्स्वयम् ततो विष्णुतनुन्देवाः पूजयन्तः सुरोत्तमम्
साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः सुपर्णा नागयक्षाश्च दैत्यदानवराक्षसाः
देवाः प्रहृष्टा मुदिताः सर्वे पूर्णमनोरथाः
अथ विष्णुर्महातेजाः पितामहमुवाच ह
इमे तु सर्वे मत्स्नेहादायाताः सर्वमानवाः
तच्छ्रुत्वा विष्णुकथितं सर्वलोकेश्वरोऽब्रवीत्
स्वर्गद्वारेऽत्र वै तीर्थे राममेवानुचिन्तयन्
सर्वे संतानिकंनाम ब्रह्मलोकादनन्तरम्
यस्या विनिःसृता ये वै सुरासुरतनूद्भवाः
ऋषयो नागयक्षाश्च प्रयास्यन्ति स्वकारणम् 2.8.6.
तज्जलं सरयूं भेजे परिपूर्णं ततो जलम्
मानुषं देहमुत्सृज्य ते विमानान्यथारुहन्
देहत्यागं च ते तत्र कृत्वा दिव्यवपुर्द्धराः
प्राप्य चोत्तमदेहं वै देवलोकमुपागमन् तेऽपि प्रविविशुः सर्वे देहान्निक्षिप्य वै तदा
तदा स्वर्गं गताः सर्वे स्मृत्वा लोकगुरुं विभुम्
अतस्तद्गोप्रताराख्यं तीर्थं विख्यातिमागतम्
जन्मान्तरशतैर्विप्र योगोऽयं यदि लभ्यते
गोप्रतारे न सन्देहो हरिर्भक्त्या सुनिष्ठितः
गोप्रतारे नरो विद्वान्योऽपि स्नाति सुनिश्चितः
कार्तिक्यां च विशेषेण स्नातव्यं विजितेन्द्रियैः स्नातुमायान्त्ययोध्यायां गोप्रतारे विशेषतः ।। 2.8.6.
गोप्रतारसमं तीर्थं न भूतं न भविष्यति
निष्पापः कलुषं त्यक्त्वा शुक्लांगः सितकंचुकः
यानि कानि च तीर्थानि भूमौ दिव्यानि सुव्रत
गोप्रतारे जपो होमः स्नानं दानं च शक्तितः
कार्तिके प्राप्य तद्यन्ति तीर्थानि सकलान्यपि