वरदाय वराहाय सुकूर्माय नमोनमः
त्रिनेत्र त्राणमस्माकं त्रिपुरघ्न विधीयताम्
शरीराणि विलोक्येशः कृशान्यथ दिवौकसाम्
दिव्यप्रतापधारेण त्रिवेधेनांतरात्मना
आराधनं समीक्ष्याह ब्रह्मादीनां सुरेश्वरः
दिव्येनानेन विधिना भृशमाराधितो ह्यहम् 5.1.6.
व्रतस्था मां हि पश्यंति मानुषा देवता अपि
एकैकशो द्वित्रिशो वा समस्तेभ्यः समेन वः
हिताय भवतां चाहमागामुज्जयिनीं प्रति
किमर्थं कंपिता भूमिस्त्रैलोक्यं व्याकुलीकृतम्
देवतानां तु रक्षार्थं श्रूयतामत्र कारणम्
असुरो द्रोहणोनाम बलवान्योगमायिकः
तस्य दैत्यस्य बलिनो दैत्याः परपुरंजयाः
सेंद्रान्निहंतुमिच्छंतो माया प्रच्छन्नचारकाः समुद्ययुः सुरान्हंतुमुद्यता उद्यतायुधाः
तेषां कपालपातेन भूमिनिष्कंपनेन च 5.1.6.
लोकस्थितिविनाशाथ तेषामासीत्समुद्यमः
देवानुग्रहकर्ता त्वं गुणस्मृतिनिषेवितः
दिव्यदृष्टिभिरत्यर्थं यशोऽर्थं भीम नंदिताः
ध्यानसाधननिष्पन्नं यदन्येषां न विद्यते
मनोवाक्कायभावेन दुष्करं दुश्चरं तपः
महता तनुसाध्येन बहुकालार्जितेन वः
ऊचुरुन्नाम्य वक्त्राणि स्थिता जानुभिरीश्वरम्
तदस्माकं प्रवृत्तानां मानुषाणां वरप्रद
रक्षां कुरुष्व देवेश भक्तानामभयंकर
सुदुर्लभान्यपि पुनर्दास्यामि वो वरान्बहून् ।। 5.1.6.
एवमुक्ते भगवता ब्रह्मा वचनमब्रवीत्
प्राप्ता वयं च भगवन्सुपर्याप्तो महावरः
शिव उवाच लोकेऽस्मिन्मम ये भक्ता मया विनिहताश्च ये
सार्धं तत्र जटाजूटैः शिरोभिः शूलपाणयः
येषां विनिग्रहार्थाय युष्मत्संबोधनाय च