ततो ऽवलंब्य ते धैर्यं दृष्ट्वा देवं यथाविधि
शिरोगतैरंजलिभिः पादेभ्यश्च महीं गतैः
वृषासनाय सौम्याय शूलशक्तिधराय ते
नमो दिक्चर्मवस्त्राय शुचये तीव्रतेजसे
नमोंधकविनाशाय परेशाय नमोनमः
गिरिशाय सुरेशाय ईशानाय नमोनमः 5.1.6.
सुरासुराधिपतये यतीनां पतये नमः
विरूपाक्षशुभाख्याय विश्वरूपाय वै नमः
वेधसे विश्वरूपाय दैत्यसंहारिणे नमः
विरूपाय सुरूपाय रूपाणां शतधारिणे
वरदाय वराहाय सुकूर्माय नमोनमः
त्रिनेत्र त्राणमस्माकं त्रिपुरघ्न विधीयताम्
शरीराणि विलोक्येशः कृशान्यथ दिवौकसाम्
दिव्यप्रतापधारेण त्रिवेधेनांतरात्मना
आराधनं समीक्ष्याह ब्रह्मादीनां सुरेश्वरः
दिव्येनानेन विधिना भृशमाराधितो ह्यहम् 5.1.6.
व्रतस्था मां हि पश्यंति मानुषा देवता अपि
एकैकशो द्वित्रिशो वा समस्तेभ्यः समेन वः
हिताय भवतां चाहमागामुज्जयिनीं प्रति
किमर्थं कंपिता भूमिस्त्रैलोक्यं व्याकुलीकृतम्
देवतानां तु रक्षार्थं श्रूयतामत्र कारणम्
असुरो द्रोहणोनाम बलवान्योगमायिकः
तस्य दैत्यस्य बलिनो दैत्याः परपुरंजयाः
सेंद्रान्निहंतुमिच्छंतो माया प्रच्छन्नचारकाः समुद्ययुः सुरान्हंतुमुद्यता उद्यतायुधाः
तेषां कपालपातेन भूमिनिष्कंपनेन च 5.1.6.
लोकस्थितिविनाशाथ तेषामासीत्समुद्यमः
देवानुग्रहकर्ता त्वं गुणस्मृतिनिषेवितः
दिव्यदृष्टिभिरत्यर्थं यशोऽर्थं भीम नंदिताः
ध्यानसाधननिष्पन्नं यदन्येषां न विद्यते
मनोवाक्कायभावेन दुष्करं दुश्चरं तपः