विनीतवेषाः प्रणता अनेन सस्तमन्वगुः
यज्ञं चकार विधिना वेधाश्चन्द्रार्धधारिणः
अनुग्रहेण देवांस्तानकारयत भावतः
तेभ्यो ददौ देवताभ्यः स तदप्यविरोधवित्
शैवं यथोदितं यच्च आगमाचारचेष्टितम्
सर्वानुग्राहकः शंभुः सर्वदेवैः प्रकल्पितम् 5.1.6.
तत्तेभ्यो विस्मयं त्यक्त्वा प्रायच्छत्कनकांडजः
पापघ्रं दुःखशमनं पुष्टिश्रीबलवर्धनम्
तस्मात्सर्वप्रयत्नेन भस्मस्नानं समाहिताः
सर्वे कमंडलुधराः सर्वे रुद्राक्षधारिणः
एवं व्रतधराः सर्वे वने तस्मिन्महेश्वरम्
भक्त्या परमया युक्ता विधिना परमेण च
रुद्रध्यानाग्निनिर्दग्धकल्मषाश्च श्रियान्विताः
समचीकरन्प्रत्युक्ता ब्रह्मापीशानभावितः
गते वर्षसहस्रे स दिव्ये देवेश्वरेश्वरः
गणैर्नानाविधैः सार्धं नानाभूषणभूषितैः 5.1.6.
कामरूपैरकामैश्च सर्वकामसमन्वितैः
अणिमादि गुणैर्दिव्यैर्योगैश्वर्यादिनामभिः
व्याघ्रव्यालाननै रौद्रैः काककंकवटैस्तथा
अरूपैः समरूपैश्च सुरूपैर्बहुरूपकैः
एकद्वित्रिशिखैश्चैव नानारूपविराजितैः
एककर्णैर्द्विकर्णैश्च बहुकर्णैर्विकर्णकैः
एकजंघैर्द्विजंघैश्च बहुजंघैरजंघकैः
गौरश्यामैः श्यामगौरैरसितैः कर्बुरैस्तथा
शूलासिपट्टिश धरैर्भुशुंडीपीरघायुधैः
गदामुद्गरपाषाणमुशलायुधहस्तकैः 5.1.6.
भंभाभेरीर्वादयद्भिर्वीणापणववेणुकान्
हुडंकाशृंगिकाद्यानि नानावाद्यानि वादकैः
गणेश्वरैः सुदुर्द्धर्षैर्वृतः सूर्यो ग्रहैरिव तं पश्य तां तदा व्यास ब्रह्मादीनां दिवौकसाम्
अथ ब्रह्मादयो देवा दृष्ट्वाग्रे गणनायकम्