स युक्तं हृदये स्मृत्वा ब्रह्मा देवांस्ततोऽब्रवीत्
श्रद्धाज्ञानेन तपसा योगेनैव निगद्यते
तपस्विनस्तु सकलं ज्ञानिनो निष्कलं परम्
भक्त्या परमयोपेताः परं पश्यंति योगिनः
नादीक्षितैरतो देवाः शैवीं दीक्षां प्रपद्यत
तपश्चरत भद्रं वो रुद्राराध नतत्पराः
सर्वकालं विजानाति दातव्यं दर्शनं मया 5.1.6.
शिवेक्षाविष्टमतयो ब्रह्माणमिदमबुवन् ११. श्रुत्वेति वचनं ब्रह्मा प्रत्युवाच विचारितम्
संदिदीक्षयिषुः क्षिप्रममराञ्छिवदीक्षया
वेदी प्रकल्प्यतामत्र यष्टव्योऽष्टतनुः शिवः
विनीतवेषाः प्रणता अनेन सस्तमन्वगुः
यज्ञं चकार विधिना वेधाश्चन्द्रार्धधारिणः
अनुग्रहेण देवांस्तानकारयत भावतः
तेभ्यो ददौ देवताभ्यः स तदप्यविरोधवित्
शैवं यथोदितं यच्च आगमाचारचेष्टितम्
सर्वानुग्राहकः शंभुः सर्वदेवैः प्रकल्पितम् 5.1.6.
तत्तेभ्यो विस्मयं त्यक्त्वा प्रायच्छत्कनकांडजः
पापघ्रं दुःखशमनं पुष्टिश्रीबलवर्धनम्
तस्मात्सर्वप्रयत्नेन भस्मस्नानं समाहिताः
सर्वे कमंडलुधराः सर्वे रुद्राक्षधारिणः
एवं व्रतधराः सर्वे वने तस्मिन्महेश्वरम्
भक्त्या परमया युक्ता विधिना परमेण च
रुद्रध्यानाग्निनिर्दग्धकल्मषाश्च श्रियान्विताः
समचीकरन्प्रत्युक्ता ब्रह्मापीशानभावितः
गते वर्षसहस्रे स दिव्ये देवेश्वरेश्वरः
गणैर्नानाविधैः सार्धं नानाभूषणभूषितैः 5.1.6.
कामरूपैरकामैश्च सर्वकामसमन्वितैः
अणिमादि गुणैर्दिव्यैर्योगैश्वर्यादिनामभिः
व्याघ्रव्यालाननै रौद्रैः काककंकवटैस्तथा
अरूपैः समरूपैश्च सुरूपैर्बहुरूपकैः