धैर्यमालंब्य सर्वेऽपि समागम्येंद्रपूर्वकाः
किं निमित्तं तु भगवन्नेतदुत्पातदर्शने
जातं कल्पावसानं च भिन्नमर्यादसागरम्
धरा समाधृता कस्मात्सप्तसागरवारिणा
यादृशोऽयं श्रुतः शब्दो न भूतो नापि विश्रुतः 5.1.5.
एवमुक्तोऽब्रवीद्ब्रह्मा परमेशानुभावितः
यत्पृष्टं मरुतः सर्वे शृणुध्वं तत्र कारणम्
मुखं छित्त्वा नखाग्रेण मद्देहात्पंचमं शिरः
ययाचे पात्रमादाय भिक्षां नारायणं प्रभुम्
ततः कुशस्थलीमेत्य भगवांस्तद्वनोत्तमम्
अनुगृह्याथ भगवान्वनं तत्सर्वगांडजम्
तत्कपालं करस्थं यन्न्यस्तं भगवता क्षितौ
तद्द्रक्ष्यथ विरूपाक्षं प्रपद्यत मया सह
इत्युक्त्वा भगवान्ब्रह्मा सह तैर्देवदानवैः
प्रहृष्टमनसः सर्वे कोकिलालापलापिताम् 5.1.5.
संप्राप्तं सर्वमेतैस्तद्वनं नंदनसंमितम्
दृष्ट्वा तद्वनमुत्तमं तनुभृतामाह्रादकं चेतसां नानासत्फलपुष्पपादपवनैरासेवितं सर्वतः
इह देवो ऽत्र देवोऽत्र विविशुस्ते दिदृक्षवः
अद्भुतस्य वनस्यांते न ते ददृशिरे सुराः
तमुवाच स भद्रं वै द्रक्ष्यध्वं न तपो विना
स युक्तं हृदये स्मृत्वा ब्रह्मा देवांस्ततोऽब्रवीत्
श्रद्धाज्ञानेन तपसा योगेनैव निगद्यते
तपस्विनस्तु सकलं ज्ञानिनो निष्कलं परम्
भक्त्या परमयोपेताः परं पश्यंति योगिनः
नादीक्षितैरतो देवाः शैवीं दीक्षां प्रपद्यत
तपश्चरत भद्रं वो रुद्राराध नतत्पराः
सर्वकालं विजानाति दातव्यं दर्शनं मया 5.1.6.
शिवेक्षाविष्टमतयो ब्रह्माणमिदमबुवन् ११. श्रुत्वेति वचनं ब्रह्मा प्रत्युवाच विचारितम्
संदिदीक्षयिषुः क्षिप्रममराञ्छिवदीक्षया
वेदी प्रकल्प्यतामत्र यष्टव्योऽष्टतनुः शिवः