पुष्पाणामिव वेगेन स्वशोभार्थं व्रजंति वै
पुष्पशोभाभरनतैः शिखरैः कंपसंयुतैः
भृंगाः पवनविक्षिप्तामृतवल्लीलताश्रिताः
पुष्पाभिः कुन्दवल्लीभिः पादपाः क्वचिदावृताः
द्रुमा णामप्यथाग्रेषु पुष्पिता माधवी लता 5.1.5.
हरिताः कांचनच्छायाः फलिताः पुष्पिता द्रुमाः
पुष्पकिंजल्कबहुलाः किंजल्कबहुलोदराः
शिरीष पुष्पसंकाशाः शुका मिथुनतः क्वचित्
संयुक्ताः सहचारिण्या मयूराश्चित्रबर्हिणः
कूजंति पत्रिसंघाता नानाद्भुतविराविणः
नाना मृगगणाकीर्णं नित्यं समुदितांडजम्
कपालपाणिर्भगवांस्तथारूपं वनोत्तमम्
ता वृक्षपंक्तयः सर्वा दृष्ट्वा रुद्रं समागतम्
पुष्पप्रतिग्रहं कृत्वा पादपानां महेश्वरः
एवमुक्ते भगवता तरवो निरवग्रहाः 5.1.5.
वरं ददासि देवेश प्रसन्न जनवत्सल
एष नः परमः कामो देवदेव नमोऽस्तु ते
सर्वात्मना प्रपन्ना वै याचामहे वरोत्तमम्
इत्युक्तः पादपैः सर्वैः शरणागतवत्सलः
वरं ददामि भूयो वो न वृथा दर्शनं मम
नाग्निर्न वायुर्न जलं न सूर्यकिरणातपः
नित्यं पुष्पवरोपेता नित्यं सुस्थिरयौवनाः
कामसंदर्शनाः पुंसां तपःसंध्याज्वलदृशाम्
एवं स वरदः शंभुरनुजग्राह पादपान्
क्षितिं निपतता तेन कंपते स्म रसातलम् 5.1.5.
शक्राशनिहतानीव व्याघ्रव्यालान्वितानि च
देवसिद्धविमानानि गंधर्वनगराणि च
कपोतमेषाश्चात्यंतं पुनः संघातदर्शनाः
महता तस्य शब्देन जडांधबधिरं कृतम्
सुरासुराणां सर्वेषां शरीराणि मनांसि च