पुष्पसन्नद्धशिखराः कर्णिकारद्रुमाः क्वचित्
सुपुष्पविभवाटोपैः सिन्दुवारस्य पंक्तयः
क्वचित्क्वचित्कुन्दलताः सुपुष्पाभरणोज्ज्वलाः
अतिविद्रुमशोभाढ्या कासंत्यो यूथिकालताः
शालार्जुनाः क्वचिद्भांति वनोद्देशेषु पुष्पिताः 5.1.5.
अविमुक्तं तु वल्लीभिः पुष्पितास्तु द्रुमास्तथा
चूताश्च तिलकाश्चैव मञ्जरीभिः करैरिव
परस्परं च संयुक्तैस्तिलकाशोकपल्लवैः
फलपुष्पनगा नम्राः पेशलेनेव सज्जनाः
मारुताश्लिष्टसंतुष्टैः पादपाः शालिवारिभिः
पुष्पाणामिव वेगेन स्वशोभार्थं व्रजंति वै
पुष्पशोभाभरनतैः शिखरैः कंपसंयुतैः
भृंगाः पवनविक्षिप्तामृतवल्लीलताश्रिताः
पुष्पाभिः कुन्दवल्लीभिः पादपाः क्वचिदावृताः
द्रुमा णामप्यथाग्रेषु पुष्पिता माधवी लता 5.1.5.
हरिताः कांचनच्छायाः फलिताः पुष्पिता द्रुमाः
पुष्पकिंजल्कबहुलाः किंजल्कबहुलोदराः
शिरीष पुष्पसंकाशाः शुका मिथुनतः क्वचित्
संयुक्ताः सहचारिण्या मयूराश्चित्रबर्हिणः
कूजंति पत्रिसंघाता नानाद्भुतविराविणः
नाना मृगगणाकीर्णं नित्यं समुदितांडजम्
कपालपाणिर्भगवांस्तथारूपं वनोत्तमम्
ता वृक्षपंक्तयः सर्वा दृष्ट्वा रुद्रं समागतम्
पुष्पप्रतिग्रहं कृत्वा पादपानां महेश्वरः
एवमुक्ते भगवता तरवो निरवग्रहाः 5.1.5.
वरं ददासि देवेश प्रसन्न जनवत्सल
एष नः परमः कामो देवदेव नमोऽस्तु ते
सर्वात्मना प्रपन्ना वै याचामहे वरोत्तमम्
इत्युक्तः पादपैः सर्वैः शरणागतवत्सलः
वरं ददामि भूयो वो न वृथा दर्शनं मम