अतोऽश्वत्थे शमीगर्भे संयोगस्तत्र पठ्यते
तस्मात्सुतहितः श्रेष्ठश्चतुर्थ इति कथ्यते
एवं तु ब्रह्मणो वक्त्रं पञ्चमं समपद्यत
एतद्यो बुध्यते देव तेजःसर्गमनुत्तमम्
एतद्योग्निसमुद्भवं पशुपतेर्माहात्म्यसंसूचकं वह्नेः साधुमतिः शृणोति सततं यः श्रद्धया भावितम्। यो व्यास द्विजदेवताप्रमुखतः संश्रावयेद्भक्तितः सोऽत्यर्थं भवभावितः शिवपुरे संपूज्यते दैवतैः ।। 5.1.4.
किं कृतं ब्रह्मणा तत्र प्रायश्चित्तं च कर्मणाम्
जनार्दनेन किं कर्म शंकरेण च यन्मुने
शस्तैः कुशसमिद्भिश्च यथोक्तं हरिणा पुरा
बदर्याश्रममासाद्य नरनारायणावृषी
कपालपाणिर्देवेशः पर्यटन्वसुधामिमाम्
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम्
द्रुमपुष्पभरामोदवासितं यत्सुवायुना
नानागंधरसाढ्यैश्च पक्वापक्वफलोद्भवैः
जीर्णपत्रतृणादीनि शुष्क काष्ठफलानि च
नानापुष्पसमूहानां गन्धमादाय मारुतः 5.1.5.
हरितस्निग्धनिच्छिद्रैः पर्णैरञ्छिद्रकोटरैः
अरोगिदर्शनीयैश्च सुवृत्तैः क्वचि दुद्धतैः
शोभनैर्वायुसंकीर्णैरंकुरैः प्रावृता द्रुमाः
पवनोद्धूतशिखरैः स्पर्शयंति परस्परम्
नागवृक्षाः क्वचित्पुष्पैर्भ्रमरालीनकेस रैः
पुष्पसन्नद्धशिखराः कर्णिकारद्रुमाः क्वचित्
सुपुष्पविभवाटोपैः सिन्दुवारस्य पंक्तयः
क्वचित्क्वचित्कुन्दलताः सुपुष्पाभरणोज्ज्वलाः
अतिविद्रुमशोभाढ्या कासंत्यो यूथिकालताः
शालार्जुनाः क्वचिद्भांति वनोद्देशेषु पुष्पिताः 5.1.5.
अविमुक्तं तु वल्लीभिः पुष्पितास्तु द्रुमास्तथा
चूताश्च तिलकाश्चैव मञ्जरीभिः करैरिव
परस्परं च संयुक्तैस्तिलकाशोकपल्लवैः
फलपुष्पनगा नम्राः पेशलेनेव सज्जनाः
मारुताश्लिष्टसंतुष्टैः पादपाः शालिवारिभिः