तमोहार महाहार स्वाप्रिय तमोहर
वैश्वानरानलोदग्र ऊर्ध्वपावक सर्वग?? विभावसो महाभाग कृष्णवर्त्मन्नमोनमः
तुष्टोऽहं भवतो ब्रह्मन्भावकर्म प्रसिध्यति
एवमुक्तस्तदा ब्रह्मा नमस्कृत्याब्रवीत्पुनः
अब्रवीत्सोऽथ ब्रह्माणं पुरुष स्त्वं प्रजापतिः 5.1.4.
अथापश्यत्स दिव्येन भगवंतं सनातनम्
ज्वलनं गगनं भूमिं दृश्यादृश्यं परं पदम् सदैव कुरुते देवो भुंक्ते सर्वं यतः प्रभुः
अतिसंभूतिभव्येन स्तोत्रेणाथ प्रजापतिः
ततोऽतिरक्तवर्णं च दृष्ट्वा देवः प्रजापतिः
व्यक्ताव्यक्तप्रणेतारं प्रणमञ्छिरसा स्वयम्
पृथिवी वायुराकाशं यच्चान्यद्भुवनत्रयम्
तत्त्वसर्गं भूतसर्गं भावसर्गं तथैव च
यत्किंचिद्वस्तुजातं हि तत्सर्वमचरं चरम्
अथेशः प्राह ब्रह्माणं त्वया दृष्टं यथातथम्
कर्ताहमनुकर्ता त्वं लोकानां स्थितिकारणे 5.1.4.
इत्युक्तो देवदेवेन ब्रह्मा वचनमब्रवीत्
त्वत्प्रसादात्प्रजासर्गं कुर्वतो मे महेश्वर
महे३वर उवाच ध्यायतः पुत्रकामस्य स्रष्टु कामस्य ते यतः
पुत्रत्वं प्राप्य हीशस्ते छेत्स्यामि पंचमं शिरः
कीर्तयस्व सखा धन्यः स नः पूज्यो भविष्यति
अथापश्यत्ततो ब्रह्मा तेजसा हरिमच्युतम्
महेश्वरस्य तेजोर्ध्वं संतं नारायणं प्रभुम्
अंगुल्या संस्पृशन्देवो ब्रह्माणमब्रवीद्वचः
भविता लोकरक्षार्थं श्रेष्ठः सर्वधनुष्मताम्
इत्युक्त्वा भगवान्देवस्तमग्निं पाणिनाऽ ग्रहीत् 5.1.4.
इति सत्कृत्य सततं नरं चैव महेश्वरः
अथाब्रवीत्ततो ब्रह्मा अग्निं तं तु युगक्षये
भृगुश्चैवांगिराः पुत्रौ भवितारौ न संशयः
द्विधा संभज्य तेनाग्निं सृष्टेर्यज्ञो भविष्यति
ब्रह्मणाऽग्नी समेतौ तु ब्रह्माणमनुनोदितौ