यस्माच्छीघ्रं महासत्त्व सौम्यदृष्टिरिहागतः
संशीतात्मा शीतरश्मिश्चंद्रमास्त्वं भविष्यसि
तरुस्थः सर्वतेजांसि तेजसाऽभिभविष्यसि
इहैहीतीति शिरसि समादाय न्यवेशयत्
स एवं रूपवानग्निरुकाराग्निः प्रतिष्ठितः 5.1.4.
भवाग्निरूपं परमं ब्रह्माणमिदमब्रवीत्
ब्रह्मा तमाह कतमं स्थानं ते रोचतेऽनल
स्थानं नैवास्ति ते भव्यं ततो ह्येवं भविष्यति
लोके नित्यं समाचार लोकसंस्थितिहेतुकः
यदिह त्वं महाज्वालाभाभिः कलितशोभनः न ह्येष धर्मश्चैवाद्यो मायामोहितकाम्यया
इत्युक्ते ब्रह्मणा सोऽग्निः प्रजज्वाल सहस्रशः
अकारेकार ऊकारो ब्रह्मा तमथ दृष्टवान्
व्याप्तं भवाग्निना सर्वं तिर्यगूर्ध्वमधस्तथा
चिंतयंतं तु ब्रह्माणं भीतं चैव विशेषतः
तेजोनिधिं च सर्वेशं ज्ञातुमिच्छन्प्रजापतिः 5.1.4.
अद्भुतानां प्रतिश्रोत्रे तेजसा निधये नमः
बीजं यो विश्वभावानां संमोहनविमोहनम्
ऊर्ध्ववक्त्र नमस्तेस्तु सत्त्वात्मक धरात्मक
जलजोत्फुल्लपत्राक्ष जलदेव हुताशन
यज्ञाहुतिसमाचार यज्ञरूप नमोनमः
तमोहार महाहार स्वाप्रिय तमोहर
वैश्वानरानलोदग्र ऊर्ध्वपावक सर्वग?? विभावसो महाभाग कृष्णवर्त्मन्नमोनमः
तुष्टोऽहं भवतो ब्रह्मन्भावकर्म प्रसिध्यति
एवमुक्तस्तदा ब्रह्मा नमस्कृत्याब्रवीत्पुनः
अब्रवीत्सोऽथ ब्रह्माणं पुरुष स्त्वं प्रजापतिः 5.1.4.
अथापश्यत्स दिव्येन भगवंतं सनातनम्
ज्वलनं गगनं भूमिं दृश्यादृश्यं परं पदम् सदैव कुरुते देवो भुंक्ते सर्वं यतः प्रभुः
अतिसंभूतिभव्येन स्तोत्रेणाथ प्रजापतिः
ततोऽतिरक्तवर्णं च दृष्ट्वा देवः प्रजापतिः
व्यक्ताव्यक्तप्रणेतारं प्रणमञ्छिरसा स्वयम्