पुरापतन्नधोज्वाल ऊर्ध्वज्वालो यदा धृतः
ज्वालाभिः प्रज्वलन्नूर्ध्वं सर्वशब्दस्फुलिंगवान्
किमर्थं तु त्वया देव भूमिभक्षं निवारितम्
एवमुक्तोऽग्नये ब्रह्मा स्वरोमाणि जुहाव सः
अब्रवीच्च न मे तृप्तिर्न च मे देहनिर्वृतिः 5.1.4.
अब्रवीत्तं तदा वह्निस्तृप्तिर्नास्ति ममेति हि
अब्रवीच्च न मे तृप्तिर्न च मे देहनिर्वृतिः
ततो धात्रा हुताशाय कृतो देहो विधातुकः । तमदेहमथो दृष्ट्वा ब्रह्माणमवदच्च सः
अहो ब्रह्मन्न मे तृप्तिर्न च मे देहनिर्वृतिः। कुद्धेण ब्रह्मणा सोऽग्निर्हुंकारेण द्विधा कृतः
आहतू रुदतावग्नी आहारार्थं प्रजापतिम्
त्रयस्तेषां रुदंति स्म रुदन्ह्येको ह्यसंवृतः
रोरूयमाणे चाग्नौ तु पुनर्ब्रह्मा कृपान्वितः
स कालस्तस्य कामस्य सा वृत्तिः संप्रकल्पिता
हुंकाराग्निः प्रजज्वाल किमेतदिति चाब्रवीत्
देवमध्ये बहिर्वापि मुनीनामाश्रमेषु च 5.1.4.
अहमेवं प्रदास्यामि पुनः पुनरुवाच ह
साभिमानोऽपमानो वा हुंकारो यत्र कथ्यते
इकाराग्निं समाहूय ब्रह्मा वचनम ब्रवीत्
उकाराग्निं समाहूय ब्रह्मा वचनमब्रवीत्
अहं च ते विधास्यामि स्थानमाहारमेव च
यतोऽग्निर्व्यास तेनोक्तो गिरौ दुर्गे महामुने
सोऽपि भिन्नः समाहूतो ब्रह्मणा स्थानलिप्सया
तस्मात्त्वं संस्कृतां वाणीं द्विजातीनां प्रकाशय
तस्माद्द्विजातेर्विज्ञेया वाणी पुण्या प्रकाशिता
अनृताक्षरविन्यासादमंगल्या ह्यसंस्कृता 5.1.4.
आहूय भूयोऽकाराग्निं प्रजापतिरचक्षुषम्
ब्रह्माणमाह वह्निस्तु वाचोहं मुखमस्मि हे
ब्रह्मा तमाह यस्मात्त्वं तेजःस्थानं समीहसे
यस्मात्तेजः प्रपश्यंति चक्षुर्भवति दुर्बलम्
इकारमथ संभिन्नमग्निमाह पितामहः