तयोरविदितं नास्ति सिद्धासिद्धं महात्मनोः
ब्रह्मणः पंचमं वक्त्रं यत्तदासीन्महात्मनः
यो नरो ब्रह्मणः प्रोक्तः सोऽप्यग्निस्तस्य मानसः
पूर्वं दृष्ट्वा समुत्पत्ति मेवं तस्य महान्नरः
स तं हत्वा शरेणाजौ ब्रह्मणो निहितं रजः 5.1.4.
विस्तरेण तदाचक्ष्व भगवन्मुनिवंदित
सनत्कुमार उवाच अव्यक्तादीन्ससर्जादावंडं हि तदजायत
स्वयंभूः स तपस्तप्त्वा दिव्यं वर्षशतं महत्
श्रुतियोगात्तु मनसः पश्चादग्निरजायत
पाणिभ्यां ब्रह्मणा सोग्निर्भूमेरूर्ध्वं निवेशितः
पुरापतन्नधोज्वाल ऊर्ध्वज्वालो यदा धृतः
ज्वालाभिः प्रज्वलन्नूर्ध्वं सर्वशब्दस्फुलिंगवान्
किमर्थं तु त्वया देव भूमिभक्षं निवारितम्
एवमुक्तोऽग्नये ब्रह्मा स्वरोमाणि जुहाव सः
अब्रवीच्च न मे तृप्तिर्न च मे देहनिर्वृतिः 5.1.4.
अब्रवीत्तं तदा वह्निस्तृप्तिर्नास्ति ममेति हि
अब्रवीच्च न मे तृप्तिर्न च मे देहनिर्वृतिः
ततो धात्रा हुताशाय कृतो देहो विधातुकः । तमदेहमथो दृष्ट्वा ब्रह्माणमवदच्च सः
अहो ब्रह्मन्न मे तृप्तिर्न च मे देहनिर्वृतिः। कुद्धेण ब्रह्मणा सोऽग्निर्हुंकारेण द्विधा कृतः
आहतू रुदतावग्नी आहारार्थं प्रजापतिम्
त्रयस्तेषां रुदंति स्म रुदन्ह्येको ह्यसंवृतः
रोरूयमाणे चाग्नौ तु पुनर्ब्रह्मा कृपान्वितः
स कालस्तस्य कामस्य सा वृत्तिः संप्रकल्पिता
हुंकाराग्निः प्रजज्वाल किमेतदिति चाब्रवीत्
देवमध्ये बहिर्वापि मुनीनामाश्रमेषु च 5.1.4.
अहमेवं प्रदास्यामि पुनः पुनरुवाच ह
साभिमानोऽपमानो वा हुंकारो यत्र कथ्यते
इकाराग्निं समाहूय ब्रह्मा वचनम ब्रवीत्
उकाराग्निं समाहूय ब्रह्मा वचनमब्रवीत्
अहं च ते विधास्यामि स्थानमाहारमेव च