नरनारायणौ चोभौ युगे ख्यातौ भविष्यतः
एष नारायण सखा नरस्तव भविष्यति
विज्ञानस्य परीक्षायै तेजो लोके भविष्यति 5.1.3.
तेजसा ब्रह्मणो दीप्तो भुजस्य तव शोणितात्
तत्संयोगात्समुत्पन्नः शत्रूनुद्वेजयिष्यति
शक्रस्य चामरारीणां तेषामेव भयंकरः
हरिरपि स तत्रैव तुष्टाव हरकेशवौ
नमस्ते शूलहस्ताय नमस्ते खङ्गपा णये
नमोऽस्तु वाचां पतये श्रीधराय नमोनमः
तथैवांजलिसंबद्धं गृहीत्वाशु करद्वयम्
य एव पुरुषो रौद्रो ब्रह्मणः स्वेदसं भवः
निबोध तं च त्वरितमित्युक्त्वांतर्हितो हरः
वामपादेन हत्वा च समुत्तस्थौ नरो रुषा 5.1.3.
विस्फारितधनुःशब्दैर्नादिताशेषभूत लम्
एवं समेन वै युद्धं दिव्यं जातं तु भूतले
युध्यतो समतीतानि स्वेदरक्तजयोर्मुने
बिभेद बाणवेगेन ब्रह्मणस्तं नरं परम्
मन्नरेणोच्छ्रितो ब्रह्मंस्त्वदीयो विनिपातितः
हरेऽन्यजन्मनि नरो मदीयो यदि हीयते
कृत्वा तयो रणमपि निवार्य तावुवाच ह
ततो महारणे जाते तत्राहं योजयामि तम्
उक्ताविमौ नरौ रुद्रौ पालनीयौ स्वशक्तितः स्वांशभूतौ द्वापरांते नियोज्यौ भूतले त्वया
ततोऽब्रवीत्तदा विष्णुं सुरेशो दुःखितं वचः ।। 5.1.3.
अस्मिन्मन्वंतरे देव त्रेतायुगं तदा यदा वालीनाम महाबाहुः सुग्रीवार्थे निपातितः
तेन दुःखेन तप्तोऽहं नाहं गृह्णामि ते नरम्
विष्णुः प्रोवाच मघवन्भुवो भारावतारणे
ततो हृष्टोऽभवच्छक्रो विष्णुवाक्येन तेन वै
इत्युक्त्वा तु रवीन्द्रौ स प्रेषयित्वा च तौ पुनः
कृतं जुगुप्सितं कर्म ब्रह्मन्नीशं जिघांसता
शुद्ध्यर्थमस्य पापस्य प्रायश्चित्तं परं कुरु