दत्तां नारायणेनाथ सत्पात्रे पात्र उत्तमे
संपूर्णं तव पात्रं हि ततो वै परमेश्वरः
शशिसूर्याग्नि नयनः शशिशेखरशोभितः 5.1.3.
अंगुल्या घटयन्प्राह कपालं चातिपूरितम्
पार्श्वतोथ हरेरीशः स्वांगुल्या रुधिरं तदा
मथ्यमाने ततो रक्ते कललं बुद्बुदं क्रमात्
सहस्रबाहू रक्ताक्षो धनुर्ज्यां संस्पृशन्मुहुः
पुरुषोऽर्जुनसंकाशः कपाले संप्रकाशयन्
कपाले भगवन्कोऽयं प्रादुर्भूतोऽभवन्नरः
नरो नामेति पुरुषः परमास्त्रविदांवरः
नरनारायणौ चोभौ युगे ख्यातौ भविष्यतः
एष नारायण सखा नरस्तव भविष्यति
विज्ञानस्य परीक्षायै तेजो लोके भविष्यति 5.1.3.
तेजसा ब्रह्मणो दीप्तो भुजस्य तव शोणितात्
तत्संयोगात्समुत्पन्नः शत्रूनुद्वेजयिष्यति
शक्रस्य चामरारीणां तेषामेव भयंकरः
हरिरपि स तत्रैव तुष्टाव हरकेशवौ
नमस्ते शूलहस्ताय नमस्ते खङ्गपा णये
नमोऽस्तु वाचां पतये श्रीधराय नमोनमः
तथैवांजलिसंबद्धं गृहीत्वाशु करद्वयम्
य एव पुरुषो रौद्रो ब्रह्मणः स्वेदसं भवः
निबोध तं च त्वरितमित्युक्त्वांतर्हितो हरः
वामपादेन हत्वा च समुत्तस्थौ नरो रुषा 5.1.3.
विस्फारितधनुःशब्दैर्नादिताशेषभूत लम्
एवं समेन वै युद्धं दिव्यं जातं तु भूतले
युध्यतो समतीतानि स्वेदरक्तजयोर्मुने
बिभेद बाणवेगेन ब्रह्मणस्तं नरं परम्
मन्नरेणोच्छ्रितो ब्रह्मंस्त्वदीयो विनिपातितः
हरेऽन्यजन्मनि नरो मदीयो यदि हीयते
कृत्वा तयो रणमपि निवार्य तावुवाच ह