प्रपात्य च तदा हृष्टः क्रीडां कुर्वञ्जगत्स्थितौ
अदृश्यः सर्वभूतानां विश्वात्मा विश्वसृग्विभुः
एकांगुष्ठस्थितं भूमौ तपोऽत्यंतमनातुरम् 5.1.3.
पुण्या धारसमायुक्तं पुराणपुरुषोत्तमम्
कपालं दर्शयित्वाग्रे ज्वलज्ज्वलनसोत्कटम्
कोऽन्यो योग्यो भवेद्भिक्षुर्भिक्षादानस्य सांप्रतम्
तं बिभेदांतर्गतज्ञः शूलेन शशिशेखरः
जांबूनदरसाकारा वह्निज्वालेव निर्मला
ऋज्वी वेगवती शिप्रा दीधितीवांबरे रवेः
दिव्यं वर्षसहस्रं सा समुवाह हरेर्भुजात्
दत्तां नारायणेनाथ सत्पात्रे पात्र उत्तमे
संपूर्णं तव पात्रं हि ततो वै परमेश्वरः
शशिसूर्याग्नि नयनः शशिशेखरशोभितः 5.1.3.
अंगुल्या घटयन्प्राह कपालं चातिपूरितम्
पार्श्वतोथ हरेरीशः स्वांगुल्या रुधिरं तदा
मथ्यमाने ततो रक्ते कललं बुद्बुदं क्रमात्
सहस्रबाहू रक्ताक्षो धनुर्ज्यां संस्पृशन्मुहुः
पुरुषोऽर्जुनसंकाशः कपाले संप्रकाशयन्
कपाले भगवन्कोऽयं प्रादुर्भूतोऽभवन्नरः
नरो नामेति पुरुषः परमास्त्रविदांवरः
नरनारायणौ चोभौ युगे ख्यातौ भविष्यतः
एष नारायण सखा नरस्तव भविष्यति
विज्ञानस्य परीक्षायै तेजो लोके भविष्यति 5.1.3.
तेजसा ब्रह्मणो दीप्तो भुजस्य तव शोणितात्
तत्संयोगात्समुत्पन्नः शत्रूनुद्वेजयिष्यति
शक्रस्य चामरारीणां तेषामेव भयंकरः
हरिरपि स तत्रैव तुष्टाव हरकेशवौ
नमस्ते शूलहस्ताय नमस्ते खङ्गपा णये
नमोऽस्तु वाचां पतये श्रीधराय नमोनमः
तथैवांजलिसंबद्धं गृहीत्वाशु करद्वयम्