शाधि राज्यं च खल्वेतन्नान्यथा मे वचः कुरु
एवमुक्त्वा तु काकुत्स्थो हनुमंतमथाब्रवीत्
यावल्लोका वदिष्यंति मत्कथां वानरर्षभ
मैन्दश्च द्विविदश्चैव अमृतप्राशनावुभौ
पुत्रपौत्राश्च येऽस्माकं तान्रक्षन्त्विह वानराः मया सार्धं प्रयातेति तदा तान्राघवोऽब्रवीत् ।। 2.8.6.
प्रभातायां तु शर्वर्य्यां पृथुवक्षा महाभुजः
अग्निहोत्राणि यांत्वग्रे दीप्यमानानि सर्वशः
ततो वसिष्ठस्तेजस्वी सर्वं निश्चित्य चेतसा
ततः क्षौमाम्बरधरो ब्रह्मचर्यसमन्वितः
न व्याहरच्छुभं किंचिदशुभं वा नरेश्वरः
रामस्य सव्यपार्श्वे तु सपद्मा श्रीः समाश्रिता
नानाविधायुधान्यत्र धनुर्ज्याप्रभृतीनि च
वेदो ब्राह्मणरूपेण सावित्री सव्यदक्षिणे
ऋषयश्च महात्मानः सर्वे चैव महीधराः
तथानुयांति काकुत्स्थमंतःपुरगताः स्त्रियः 2.8.6.
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ
ततो विप्रा महात्मानः साग्निहोत्राः समंततः
मंत्रिणो भृत्ययुक्ताश्च सपुत्राः सहबांधवाः
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः
तथा प्रजाश्च सकलाः सपुत्राश्च सवबांधवाः
स्नाताः शुक्लाम्बरधराः सर्वे प्रयतमानसाः
न कश्चित्तत्र दीनोऽभून्न भीतो नातिदुःखितः
द्रष्टुकामाश्च निर्वाणं राज्ञो जनपदास्तथा
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः
तानि भूतानि नगरे ह्यन्तर्धानगतान्यपि 2.8.6.
यानि पश्यंति काकुत्स्थं स्थावराणि चराणि च
नासीत्सत्त्वमयोध्यायां सुसूक्ष्ममपि किंचन
अथार्द्धयोजनं गत्वा नदीं पश्चान्मुखो ययौ
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः आययौ तत्र काकुत्स्थं स्वर्गद्वारमुपस्थितम्
विमानशतकोटीभिर्दिव्याभिः सर्वतो वृतः