एवं संस्तूयमानोऽसौ देवर्षिपितृमानवैः
त्वया कारुण्यतोऽस्माकं वरश्चापि प्रदीयताम्
यदस्माकं महद्वीर्यं तेजश्चैव पराक्रमम्
विनेशुः सर्वतेजांसि त्वत्प्रसादात्पुनः प्रभो
जगाम तत्र यत्रासौ रजोऽहंकारमूर्त्तिमान्
ब्रह्मा तमागतं देवं नाजानात्तमसा वृतः
तदाऽदृश्यत विश्वात्मा विश्वसृग्विश्वभाव नः
तेजसाभिभवन्रुद्रस्तेन मत्तोऽग्रतः स्थितः 5.1.2.
रात्रौ प्रकाशकिरणश्चंद्रः सूर्योदये यथा
अवन्दत करेणैव प्राह वै सस्मितं वचः
यतो न वेद परमं देवं तत्तेजसावृतः
पश्यतां सर्वदेवानां शृण्वतां वाचमुक्तवान्
तेजोराशिशशांकाभः शशांकार्काग्निलोचनः
चकर्त कदलीगर्भं नरः कररुहैरिव
रुद्रस्य तेजसा तस्मान्मो हितो न नतिं गतः
अपश्यद्दैवतैः सार्धं रौद्रमतिभयाज्ज्वलत्
ग्रहमण्डलमध्यस्थो द्वितीय इव चन्द्रमाः
शिखरस्थेन सूर्येण कैलास इव पर्वतः तुष्टुवुर्विविधैः स्तोत्रैर्देवदेवं कपालिनम् ।। 5.1.2.
ऐश्वर्यज्ञानयुक्ताय सर्वभोगप्रदायिने
कालसंहारकर्ता त्वं महाकालस्ततो ह्यसि
शंकरोप्याशु भक्तानां तेन त्वं शंकरः स्मृतः
तेन देव कपाली त्वं स्तुतो ह्यसि प्रसीद नः
कृपानिधिः स भगवांस्तत्रैवांतरधीयत सितविधृतकपालो मालया रुद्रपार्श्वे स जयति जितवेधा ऊर्जितः प्राज्यतेजाः
ललाटे स्वदमुत्पन्नं गृहीत्वाऽताडयद्भुवि
तत्स्वेदात्कुंडली जज्ञे सधनुः समहेषुधिः
तमुवाच विरंचिस्तु दर्शयन्रुद्रमोजसा
ब्रह्मणो वचनं श्रुत्वा धनुरुद्यम्य पृष्ठतः
स दृष्ट्वा पुरुषं चोग्रमगमद्विस्मितो भवः
मया न वध्योऽतिबलः सखा विष्णोर्भविष्यति
चिंतयन्नित्थमीशोऽपि विष्णोराश्रममभ्यगात्