तस्माद्ब्रह्मेति लोकेऽत्र नाम ख्यातं भविष्यति
लब्ध्वा शापवरावेवं पुत्रसृष्टिं चकार सः
समिद्युक्तेन हस्तेन ललाटं मार्जतोऽभवत्
तदनन्तरमासाद्य उत्ततार सुतोंऽतिकात्
पंचवक्त्रो दशभुजः शूलचापासिशक्तिमान्
सेन्दुः कपर्दं बिभ्राणः सिंहचर्मांबरंधरः
नीललोहितनामेति भव रुद्र पिनाकधृक्
सप्तादौ मानसाञ्जज्ञे सनकादींस्ततोऽपरान् 5.1.2.
अष्टभेदान्सुरान्कृत्वा तिर्यग्योनिं च पंचधा
सृष्टिः सुरादिका जाता कृत्वा ब्रह्माणमप्यधः
ततो ब्रह्माऽवदद्रुद्रमपूज्यो हि त्वया कृतः
तं नीललोहितः प्रोचे भवता नार्चितो ह्यहम्
ततो ब्रह्माऽभवन्मूढो रजसा चोपबृंहितः
मत्तुल्यो नास्ति वै देवो येन सृष्टिः प्रवर्द्धिता
एवं मूढः स पंचास्यो विरंच्योऽभवद्दर्पितः
द्वितीयं वदनं तस्य ऋग्वे दस्य प्रवर्तकम्
सांगोपांगेतिहासांश्च सरहस्यान्ससंग्रहान्
तस्याऽसुराः सुराः सर्वे वक्त्रस्याद्भुततेजसः 5.1.2.
सपुत्रा अपि सोद्वेगा बभूवुर्नष्ट चेतसः
अभिभूतमिवात्मानं मन्यमाना अविद्विषः
गच्छाम शरणं देवं निस्तेजा ब्रह्मतेजसा
तं भीममत्र दक्ष्यामो भक्त्या नान्येन केनचित् चक्रुः स्तोत्रं महेशस्य परया स्वरसंपदा
नमस्ते देवदेवेश महेश्वर नमोनमः
न विद्मः परमं मूढा महिमानं तवातुलम्
प्रतिष्ठा सर्वभूतानां हेतुः सर्वस्य सर्जने
नामसंकीर्तनादेव मुच्यन्ते जंतवोऽशुभात्
मूर्तयस्ते महादेव व्याप्तमाभिरशेषतः
नावबुध्यति सर्वेश सर्वमूर्तिधरो यतः त्वं करोषि युगावर्तकाले काले च दुःसहम् ।। 5.1.2.
प्रसन्नवदनो भूत्वा देवैश्चापि नमस्कृतः
वासयन्मोहनाम्ना तु सह देवैर्महेश्वरः