सरांसि नैव गिरयो नापगा नाब्धयस्तथा
तदैको हि महाकालो लोकानुग्रहकारणात्
सृष्ट्यर्थं स महाकालः करे कामं प्रतिष्ठितम्
कललं बुद्बुदं भूत्वा तविवेगविवर्द्धितम्
करेण ताडितं तद्धि बभूव द्विदलं महत्
मध्येऽभवत्तदा ब्रह्मा पंचवक्त्रश्चतुर्भुजः
कुरु सृष्टिं महाबाहो विचित्रां मदनुग्रहात्
प्रेर्यमाणोऽपि वै स्रष्टुं ब्रह्मा देवमचिंतयत् 5.1.2.
ब्रह्मणस्तपसा दृष्टः प्रादाद्वेदं षडंगकम्
तपसाऽतिष्ठदा भूयः समाराधयितुं भवम्
ब्रह्मोवाच नमः शिवायामलसत्त्वचेतसे गुणत्रयातीतविसारितेजसे
नमोऽ स्तु ते सृष्टिविधौ रजोजुषे जगत्स्थितौ सत्त्वमधिष्ठिताय ते
अशेषभूतप्रकृतेः परा य वै परात्मरूपाय नमः शिवाय वै
भूतोयवह्न्यम्बरवायुचंद्रसूर्यात्मरूपाभिरिदं तनूभिः
यानीह तेजांसि जगंति यानि भूतानि भव्यान्यथ कारणानि
अन्तर्हित उवाचेदं ब्रह्मन्संयाच्यतां वरः
स वव्रे मनसा पुत्रं भवं गौरवकारणात्
यस्मान्मां मनसा पुत्रं चतुर्मुख समीहसे 5.1.2.
अयाच्यं याचितं यस्मान्ममांशो नीललोहितः
अन्यद्यस्मात्स्मृतो भक्त्या त्वयाहं पितृभावतः
तस्माद्ब्रह्मेति लोकेऽत्र नाम ख्यातं भविष्यति
लब्ध्वा शापवरावेवं पुत्रसृष्टिं चकार सः
समिद्युक्तेन हस्तेन ललाटं मार्जतोऽभवत्
तदनन्तरमासाद्य उत्ततार सुतोंऽतिकात्
पंचवक्त्रो दशभुजः शूलचापासिशक्तिमान्
सेन्दुः कपर्दं बिभ्राणः सिंहचर्मांबरंधरः
नीललोहितनामेति भव रुद्र पिनाकधृक्
सप्तादौ मानसाञ्जज्ञे सनकादींस्ततोऽपरान् 5.1.2.
अष्टभेदान्सुरान्कृत्वा तिर्यग्योनिं च पंचधा
सृष्टिः सुरादिका जाता कृत्वा ब्रह्माणमप्यधः