रमते भगवानेषु सिद्धक्षेत्रेषु सर्वदा
त्रयाणामपि लोकानां कुरुक्षेत्रं प्रशस्यते
तस्या दशगुणं व्यास महाकालवनोत्तमम्
प्रभासमुत्तमं तीर्थं क्षेत्रमाद्यं पिनाकिनः
तस्मादप्युत्तमं व्यास पुण्या वाराणसी मता
महाकालवनं गुह्यं सिद्धक्षेत्रं तथोषरम् 5.1.1.
सर्वतस्तु समाख्यातं महाकालवनं मुने
पंचैकत्र न लभ्यंते महाकालपुरादृते
नाग्निर्न वायुरादित्यो न भूमिर्न दिशो नभः
न नक्षत्राणि न ज्योतिर्न द्यौर्नेंदुर्ग्रहा स्तथा
सरांसि नैव गिरयो नापगा नाब्धयस्तथा
तदैको हि महाकालो लोकानुग्रहकारणात्
सृष्ट्यर्थं स महाकालः करे कामं प्रतिष्ठितम्
कललं बुद्बुदं भूत्वा तविवेगविवर्द्धितम्
करेण ताडितं तद्धि बभूव द्विदलं महत्
मध्येऽभवत्तदा ब्रह्मा पंचवक्त्रश्चतुर्भुजः
कुरु सृष्टिं महाबाहो विचित्रां मदनुग्रहात्
प्रेर्यमाणोऽपि वै स्रष्टुं ब्रह्मा देवमचिंतयत् 5.1.2.
ब्रह्मणस्तपसा दृष्टः प्रादाद्वेदं षडंगकम्
तपसाऽतिष्ठदा भूयः समाराधयितुं भवम्
ब्रह्मोवाच नमः शिवायामलसत्त्वचेतसे गुणत्रयातीतविसारितेजसे
नमोऽ स्तु ते सृष्टिविधौ रजोजुषे जगत्स्थितौ सत्त्वमधिष्ठिताय ते
अशेषभूतप्रकृतेः परा य वै परात्मरूपाय नमः शिवाय वै
भूतोयवह्न्यम्बरवायुचंद्रसूर्यात्मरूपाभिरिदं तनूभिः
यानीह तेजांसि जगंति यानि भूतानि भव्यान्यथ कारणानि
अन्तर्हित उवाचेदं ब्रह्मन्संयाच्यतां वरः
स वव्रे मनसा पुत्रं भवं गौरवकारणात्
यस्मान्मां मनसा पुत्रं चतुर्मुख समीहसे 5.1.2.
अयाच्यं याचितं यस्मान्ममांशो नीललोहितः
अन्यद्यस्मात्स्मृतो भक्त्या त्वयाहं पितृभावतः