यत्र रामाज्ञया विद्वन्साकेतनगरीजनाः
कथं च राघवो विद्वन्नेतत्कथय सुव्रत
यथाजगाम रामोऽसौ स्वर्गं स च पुरीजनः
पुरा रामो विधायैव देवकार्य्यमतंद्रितः
ततो निशम्य चारेण वानराः कामरूपिणः 2.8.6.
देवगंधर्वपुत्राश्च ऋषिपुत्राश्च वानराः
ते राममनुगत्योचुः सर्वे वानरयूथपाः
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ
श्रुत्वा तु वचनं तेषामृक्षवानररक्षसाम्
यावत्प्रजा धरिष्यंति तावदेव विभीषण
शाधि राज्यं च खल्वेतन्नान्यथा मे वचः कुरु
एवमुक्त्वा तु काकुत्स्थो हनुमंतमथाब्रवीत्
यावल्लोका वदिष्यंति मत्कथां वानरर्षभ
मैन्दश्च द्विविदश्चैव अमृतप्राशनावुभौ
पुत्रपौत्राश्च येऽस्माकं तान्रक्षन्त्विह वानराः मया सार्धं प्रयातेति तदा तान्राघवोऽब्रवीत् ।। 2.8.6.
प्रभातायां तु शर्वर्य्यां पृथुवक्षा महाभुजः
अग्निहोत्राणि यांत्वग्रे दीप्यमानानि सर्वशः
ततो वसिष्ठस्तेजस्वी सर्वं निश्चित्य चेतसा
ततः क्षौमाम्बरधरो ब्रह्मचर्यसमन्वितः
न व्याहरच्छुभं किंचिदशुभं वा नरेश्वरः
रामस्य सव्यपार्श्वे तु सपद्मा श्रीः समाश्रिता
नानाविधायुधान्यत्र धनुर्ज्याप्रभृतीनि च
वेदो ब्राह्मणरूपेण सावित्री सव्यदक्षिणे
ऋषयश्च महात्मानः सर्वे चैव महीधराः
तथानुयांति काकुत्स्थमंतःपुरगताः स्त्रियः 2.8.6.
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ
ततो विप्रा महात्मानः साग्निहोत्राः समंततः
मंत्रिणो भृत्ययुक्ताश्च सपुत्राः सहबांधवाः
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः
तथा प्रजाश्च सकलाः सपुत्राश्च सवबांधवाः