चन्द्रभागा वितस्ता च नर्मदाऽमरकण्टके
केदारं पुष्करं चैव तथा कायावरोहणम्
यत्रास्ते श्रीमहाकालः पापेन्धनहुताशनः
भुक्तिदं मुक्तिदं क्षेत्रं कलिक ल्मषनाशनम्
यानि तीर्थानि विद्यन्ते यानि लिंगानि संति वै
तान्यहं श्रोतुमिच्छामि परं कौतूहलं हि मे ।। 5.1.1.
क्षेत्रमाद्यं महादेवि सर्वपापप्रणाशनम्
श्रीमेरोः संनिधाने च शिखरं रत्नचिह्नितम्
विचित्रधातुभिश्चित्रं स्वच्छस्फटिकवेदिकम्
मृगनागेन्द्रसंयुक्तं गजयूथसमाकुलम्
वाताहततरुव्रातप्रसूनास्थानचित्रितम्
लतागृहरतिस्थानं सिद्धविद्याधराश्रयम्
तस्मिन्वने महारम्ये शोभिताशेष भूमिकम्
तत्र दिव्यांगनागीतमधुरध्वनिनादिता
बहुवाद्यसमुन्नद्धमहास्वननिनादिता
विन्यस्ता कोटिभिः स्तंभैर्निर्मलादर्शशोभिता 5.1.1.
अप्सरोनृत्यविन्यासविलासोल्लासशोभिता
ऋषिसंघसमाकीर्णा मुनिवृन्दनिषेविता
तस्यां निविष्टं वागीशं शंकराराधने रतम्
मुनिमध्यात्समुत्थाय कृष्णद्वैपायनो मुनिः
कृतांजलिपुटो भूत्वा भवभक्त्यानुभावितः
महाकालस्य माहात्म्यं प्राणिनां मोहनाशनम्
भगवन्क्षेत्रमाहात्म्यं महाकालस्य कथ्यताम्
फलं यथात्र वसतां मृतानां च गतिर्यथा
कथमेतत्स्मशानं च क्षेत्रं प्रोक्तं यथा तथा
यस्मात्स्थानं च मातॄणां पीठं तेनैव कथ्यते ।। 5.1.1.
मृताः पुनर्न जायंते तेनेदमूषरं स्मृतम्
यस्मादिष्टं हि भूतानां स्मशानमतिवल्लभम्
एकाम्रकं भद्रकालं करवीरवनमेव च
भरथं चैव केदारं दिव्यं रुद्रमहालयम्