किं तस्य जीवितेनार्थः किं धनैः किं जपैर्नृप
अपि कीटपतंगा ये पशवः पक्षिणो मृगाः
तस्मिन्मृता महाराज निष्कामाः कामतोऽपि वा
यश्चैतच्छुणुयान्नित्यं पुराणं श्रद्धयान्वितः
तस्मात्सर्वप्रयत्नेन यात्रां तत्र समाचरेत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडेऽर्बुदखण्डमाहात्म्यफलश्रुतिवर्णनंनाम त्रिषष्टितमोऽध्यायः
श्रीजगदंबायै नमः अथावन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्यं प्रारभ्यते व्यास उवाच स्रष्टारोऽपि प्रजानां प्रबलभवभयाद्यं नमस्यंति देवा यो ह्यव्यक्ते प्रविष्टः प्रविहितमनसां ध्यानयुक्तात्मनां च
कथ्यंतां तानि यत्नेन श्रद्धा येषु प्रजायते
ईश्वर उवाच अस्ति लोकेषु विख्याता गंगा त्रिपथगा नदी
तपनस्य सुता देवी यमुना लोकपावनी
चन्द्रभागा वितस्ता च नर्मदाऽमरकण्टके
केदारं पुष्करं चैव तथा कायावरोहणम्
यत्रास्ते श्रीमहाकालः पापेन्धनहुताशनः
भुक्तिदं मुक्तिदं क्षेत्रं कलिक ल्मषनाशनम्
यानि तीर्थानि विद्यन्ते यानि लिंगानि संति वै
तान्यहं श्रोतुमिच्छामि परं कौतूहलं हि मे ।। 5.1.1.
क्षेत्रमाद्यं महादेवि सर्वपापप्रणाशनम्
श्रीमेरोः संनिधाने च शिखरं रत्नचिह्नितम्
विचित्रधातुभिश्चित्रं स्वच्छस्फटिकवेदिकम्
मृगनागेन्द्रसंयुक्तं गजयूथसमाकुलम्
वाताहततरुव्रातप्रसूनास्थानचित्रितम्
लतागृहरतिस्थानं सिद्धविद्याधराश्रयम्
तस्मिन्वने महारम्ये शोभिताशेष भूमिकम्
तत्र दिव्यांगनागीतमधुरध्वनिनादिता
बहुवाद्यसमुन्नद्धमहास्वननिनादिता
विन्यस्ता कोटिभिः स्तंभैर्निर्मलादर्शशोभिता 5.1.1.
अप्सरोनृत्यविन्यासविलासोल्लासशोभिता
ऋषिसंघसमाकीर्णा मुनिवृन्दनिषेविता
तस्यां निविष्टं वागीशं शंकराराधने रतम्
मुनिमध्यात्समुत्थाय कृष्णद्वैपायनो मुनिः