इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे जंबूतीर्थप्रभाववर्णनंनाम षष्टितमोऽध्यायः
येन गंगा धृता राजन्निपतन्ती नभस्तलात्
आहूता देव देवेन ह्यचलेश्वररूपिणा
तत्र यः कुरुते स्नानमष्टम्यां च समाहितः
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयऽर्बुदखण्डे गंगाधरतीर्थमाहात्म्य वर्णनंनामैकषष्टितमोऽध्यायः
तथा गंगेश्वरं चान्यद्गङ्गया निर्मितं स्वयम्
पुरा समभवद्युद्धमुमायाः सह गंगया
यया संपूजितः शंभुः शीघ्रं यास्यति दर्शनम्
एवमुक्ता ततो गंगा सत्वरैत्यात्र पर्वते
दृष्ट्वा गौर्याथ कटकं पर्वतस्य मनोहरम्
सम्यक्छ्रद्धासमोपेता ततस्तुष्टो महेश्वरः
तस्मात्कटेश्वराख्या च लोके चास्य भविष्यति
या नारी पतिना मुक्ता सपत्नीदुःखदुःखिता सुतसौभाग्यसंपन्ना भर्तृप्राणसमा तथा
गंगयाराधितो देव एवमेव वरं ददौ
विशेषतश्च नारीभिः सपत्नीदोषहानिदम् 7.3.62.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे कटेश्वरगंगेश्वरमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः
अर्बुदस्य महाराज माहात्म्यं हि समासतः
विस्तरेण च संख्या स्यादपि वर्षशतैरपि पदेपदे गृहाण्येव निर्मितानि महर्षिभिः
न तत्तीर्थं न सा सिद्धिर्न स वृक्षो महीपते
ये वसंति महाराज सुरम्येऽर्बुदपर्वते
किं तस्य जीवितेनार्थः किं धनैः किं जपैर्नृप
अपि कीटपतंगा ये पशवः पक्षिणो मृगाः
तस्मिन्मृता महाराज निष्कामाः कामतोऽपि वा
यश्चैतच्छुणुयान्नित्यं पुराणं श्रद्धयान्वितः
तस्मात्सर्वप्रयत्नेन यात्रां तत्र समाचरेत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडेऽर्बुदखण्डमाहात्म्यफलश्रुतिवर्णनंनाम त्रिषष्टितमोऽध्यायः
श्रीजगदंबायै नमः अथावन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्यं प्रारभ्यते व्यास उवाच स्रष्टारोऽपि प्रजानां प्रबलभवभयाद्यं नमस्यंति देवा यो ह्यव्यक्ते प्रविष्टः प्रविहितमनसां ध्यानयुक्तात्मनां च
कथ्यंतां तानि यत्नेन श्रद्धा येषु प्रजायते
ईश्वर उवाच अस्ति लोकेषु विख्याता गंगा त्रिपथगा नदी
तपनस्य सुता देवी यमुना लोकपावनी