तत्प्रभावात्पुनः प्राप्तो वियुक्तोऽपि शतक्रतुः
नरो वा यदि वा नारी वियुक्ताऽत्र वने शुभे
स तेन लभते संगं भूय एव यथा मया
फलदानं प्रशंसंति तत्र ब्राह्मणसत्तमाः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डेऽवियुक्तक्षेत्रमाहात्म्यवर्णनंनाम सप्तपञ्चाशत्तमोऽध्यायः
स्थापितं भक्तियुक्तेन धुन्धुमारेण यत्पुरा
दांपत्यं पूजयेद्भक्त्या यस्तत्र मनुजाधिप
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्ड उमामाहेश्वरतीर्थमाहात्म्यवर्णनंनामाष्टपञ्चाशत्तमोऽध्यायः
यस्मिन्स्नातो नरो राजंस्तेजसा युज्यते ध्रुवम्
निःश्रीकस्तेजसा हीनो दुर्गन्धेन समन्वितः
ततः पप्रच्छ देवेन्द्रो द्विजश्रेष्ठं बृहस्पतिम्
तीर्थं विना ध्रुवं वृद्धिस्तेजसो न भविष्यति
ततस्तीर्थान्यनेकानि भ्रांत्वा शक्रो नराधिप स्नानं चक्रे ततः श्रान्तो महौजाः प्रत्यपद्यत
दुर्गन्धेन विनिर्मुक्तस्ततो देवैः समावृतः
येऽत्र स्नानं करिष्यन्ति प्राप्ते शक्रोच्छ्रये सदा सुश्रीकाश्च भविष्यंति सदा जन्मनिजन्मनि
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे महौजसतीर्थप्रभाववर्णनंनामैकोनषष्टितमोऽध्यायः
तत्र स्नातो नरः सम्यगिष्टं फलमवाप्नुयात्
आसीत्पुरा निमिर्नाम क्षत्रियः सूर्यवंशजः
प्रायोपवेशनं कृत्वा स्थितस्तत्र समाहितः
चक्रुर्धर्मकथां पुण्यां राजर्षीणां महात्मनाम्
ततः कश्चित्कथांते च लोमशो नाम सन्मुनिः
तच्छ्रुत्वा पार्थिवो राजन्निमिः परमदुर्मनाः
ततः प्रोवाच तं विप्रमस्त्युपायो द्विजोत्तम
लोमश उवाच दया मे नृप सञ्जाता त्वां दृष्ट्वा दुःखितं भृशम्
अत्रैव चानयिष्यामि जंबूद्वीपोद्भवानि च
स्नानं कुरु महाराज ह्येकीभूतेषु तत्र च 7.3.60.
एवमुक्त्वा स विप्रर्षिर्ध्यानं चक्रे समाहितः
प्रत्ययार्थं च राजर्षे जंबूवृक्षो व्यजायत
सदेहश्च गतः स्वर्गे तीर्थस्नानादनन्तरम्
कन्यागते रवौ तत्र यः श्राद्धं कुरुते नरः