एकैवात्र प्रकर्त्तव्या श्रद्धा वाऽव्यभिचारिणी
पूजयिष्यति संप्राप्ते कार्तिके पूर्णिमादिने
ब्राह्मणान्भोजयित्वा तु मिष्टान्नेन स्वशक्तितः
पूजयित्वा पदं तत्र ब्रह्मलोकं समागताः
तस्मात्सर्वप्रयत्नेन पदं पूज्यं नरोत्तम
अन्यत्कौतूहलं राजन्महद्दृष्टं महाद्भुतम्
आयामविस्तरेणाऽपि प्राप्ते कृतयुगे नृप
ततस्त्रेतायुगे प्राप्ते रक्तवर्णं प्रदृश्यते
द्वापरे कपिलं तच्च लघुमात्रं प्रदृश्यते 7.3.53.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे ब्रह्मपदोत्पत्तिमाहात्म्यवर्णनंनाम त्रिपञ्चाशत्तमोऽध्यायः
ब्रह्मणा तत्समानीतं पर्वतेऽर्बुदसंज्ञके
वसिष्ठस्य पुरा सत्रे वर्त्तमाने नराधिप
प्रतिज्ञातं महाराज ब्रह्मणाऽव्यक्तजन्मना वंदयिष्यामि संप्राप्ते संध्याकाले समाहितः
एतस्मिन्नेव काले तु प्रस्थितः पुष्करं प्रति
स विना न त्वया देव सिद्धिं यास्यति कर्हिचित्
तस्मादानय चात्रैव पद्मयोने त्रिपुष्करम् ब्रह्मत्वं कुरु देवेश सत्रे चास्मिन्दयानिधे
एवमुक्तो वसिष्ठेन ब्रह्मा लोक पितामहः पुष्करत्रितयं चागात्सुपुण्ये सलिलाशये
ततःप्रभृति संजातमर्बुदेऽस्मिंस्त्रिपुष्करम्
तत्र यः कार्तिके मासि पौर्णमास्यां समाहितः
तस्य चोत्तरदिग्भागे सावित्रीकुण्डमुत्तमम् 7.3.54.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे त्रिपुष्करमाहात्म्यवर्णनंनाम चतुष्पंचाशत्तमोऽध्यायः
यत्र स्नातो नरो भक्त्या गणाधीशत्वमाप्नुयात्
पुरा हत्वांऽधकं दैत्यं सगणो वृषभध्वजः
चतुर्द्दश्यां महाराज यस्तत्र कुरुते नरः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे रुद्रह्रदमाहात्म्यवर्णनंनाम पञ्चपञ्चाशत्तमोऽध्यायः
गुहामध्ये गतं लिंगं सिद्धैः संपूजितं पुरा
यंयं काममभिध्याय संपूजयति मानवः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे गुहेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशत्तमोऽध्यायः
यस्मिन्दृष्टे नरोभीष्टैर्न वियुज्येत कर्हिचित्
तत्र पूर्वं शची राजन्प्रविष्टा दुःखसंयुता