एष देवः शिवः प्राप्तस्तव पार्श्वं स्वलज्जया 7.3.52.
पुत्रं लब्ध्वा प्रयास्यामि तस्य पार्श्वे सुरेश्वर
तस्यास्तं निश्चयं ज्ञात्वा स्वयं देवः समाययौ
दृष्टिदानेन देवेशि भाषणेन वरानने
अकाले तेन मुक्ताऽसि निवृत्तिः सुरते कृता
तस्मात्ते भविता पुत्रो निजदेहसमुद्भवः
निजांगमलमादाय यादृग्रूपं सुरेश्वरि
सद्यो देवगणानां च दैत्यानां च विशेषतः
एवमुक्ता त्रिनेत्रेण परितुष्टा सुरेश्वरी
चतुर्थे दिवसे प्राप्ते ततः स्नात्वा शिवा नृप चतुर्भुजं चकाराऽथ हरवाक्याद्विनायकम्
ततः सजीवतां प्राप्य हरवाक्येन तं तदा सर्वेषां चैव मर्त्यानां ततः ख्यातो बभूव ह ॥ 7.3.52.
विनायक इति श्रीमान्पूज्यस्त्रैलोक्यवासिनाम्
ततो देवगणाः सर्वे देवीप्रियहिते रताः
देवा ऊचुः तवायं तनयो देवि सर्वेषां नः पुरःसरः
एतच्छृंगं गिरे रम्यं तव संसेवनाच्छुभे
येऽत्र स्नानं करिष्यन्ति सुपुण्ये सलिलाश्रये
माघमासे तृतीयायां शुक्लायां ये समाहिताः
एवमुक्त्वा सुराः सर्वे स्वस्थानं तु ततो गताः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्ड ईशानीशिखरमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः
यत्र पूर्वं पदं न्यस्तं ब्रह्मणा लोककारिणा
पुरा ब्रह्मादयो देवास्तत्र सर्वे समाहिताः
अचलेश्वरयात्रायां सुभक्त्या भाविता नृप
उपवासैश्च निर्विण्णा वयं सर्वे पितामह
तस्मात्सदुपदेशं त्वं किंचिद्दातुमिहार्हसि
अयाचितोपचारैश्च जपहोमैः सुदुष्करैः
तेषां तद्वचनं श्रुत्वा तदा देवः कृपान्वितः
ततः स्वकं पदं त्यक्त्वा रम्ये पर्वतरोधसि
स्पृशंतु ऋषयः सर्वे ततो यास्यथ सद्गतिम्
विना स्नानेन दानेन व्रतहोमजपादिभिः 7.3.53.
अस्मिन्पदे मया न्यस्ते यांति लोकाः सहस्रशः