एवमुक्त्वा स भगवांस्ततश्चांतर्दधे हरः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे चन्द्रोद्भेदतीर्थमाहात्म्यवर्णनंनामैकपंचाशत्तमोऽध्यायः
यत्र गौर्या तपस्तप्तं सुपुण्यं लोकविश्रुतम्
यस्य संदर्शनेनापि नरः पापात्प्रमुच्यते
किमर्थं च महत्त्वेतत्कौतुकं वक्तुमर्हसि
यस्याः संश्रवणादेव मुच्यते सर्वपातकैः
पुरा गौर्या समासक्तं ज्ञात्वा देवाः सवासवाः
वीर्यं यदि त्रिनेत्रस्य क्षेत्रे गौर्याः पतिष्यति
संततेस्तु विनाशाय ततो गच्छामहे वयम्
एवं संमंत्र्य देवास्ते कैलासं पर्वतं गताः
अथ देवगणाः सर्वे वञ्चयित्वा च तं गणम् 7.3.52.
गत्वा वायो भवं ब्रूहि न कार्या संततिस्त्वया
ततो वायुर्द्रुतं गत्वा स्थितो यत्र महेश्वरः
ततस्तु भगवाञ्छर्वो व्रीडया परया युतः
ततो गौरी सुदुःखार्ता शशाप त्रिदशालयान्
तस्मात्तेऽपि भविष्यन्ति सन्तानेन विवर्ज्जिताः
यस्माद्वायो समायातः स्थानेऽस्मिञ्जनवर्जिते
एवमुक्त्वा ततो दीर्घं भर्तुः कोपपरायणा
सुतार्थं सा तपस्तेपे यतवाक्कायमानसा
इन्द्राद्यैर्विबुधैः सार्द्धं तदंतिकमुपागमत्
एष देवः शिवः प्राप्तस्तव पार्श्वं स्वलज्जया 7.3.52.
पुत्रं लब्ध्वा प्रयास्यामि तस्य पार्श्वे सुरेश्वर
तस्यास्तं निश्चयं ज्ञात्वा स्वयं देवः समाययौ
दृष्टिदानेन देवेशि भाषणेन वरानने
अकाले तेन मुक्ताऽसि निवृत्तिः सुरते कृता
तस्मात्ते भविता पुत्रो निजदेहसमुद्भवः
निजांगमलमादाय यादृग्रूपं सुरेश्वरि
सद्यो देवगणानां च दैत्यानां च विशेषतः
एवमुक्ता त्रिनेत्रेण परितुष्टा सुरेश्वरी
चतुर्थे दिवसे प्राप्ते ततः स्नात्वा शिवा नृप चतुर्भुजं चकाराऽथ हरवाक्याद्विनायकम्