पीयमानेऽमृते देव देवैः पूर्वं पराजितैः
अपिबच्चामृतं राहुस्तेनास्य मृत्युवर्जितम्
ततो देवैः कृतं साम ग्रहमध्ये प्रतिष्ठितः 7.3.51.
भयात्तस्य सुरश्रेष्ठ भित्त्वा शृंगं गिरेरिदम् तस्मादत्र प्रसादं मे कुरु कामनिषूदन
करिष्यति ग्रहं नूनं राहुः कोपपरायणः
ग्रहणे तव संप्राप्ते स्नानदानादिकाः क्रियाः
ताभिस्तव न संतापः स्वल्पोऽप्येवं भविष्यति
ग्रहणे तव संजाते मम वाक्यादसंशयम् चन्द्रोद्भेदमिति ख्यातं तीर्थं लोके भविष्यति
ग्रहणे तव संप्राप्ते योऽत्र स्नानं करिष्यति
यो वा सोमदिने स्नानं दर्शनं तत्र चाचरेत्
एवमुक्त्वा स भगवांस्ततश्चांतर्दधे हरः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे चन्द्रोद्भेदतीर्थमाहात्म्यवर्णनंनामैकपंचाशत्तमोऽध्यायः
यत्र गौर्या तपस्तप्तं सुपुण्यं लोकविश्रुतम्
यस्य संदर्शनेनापि नरः पापात्प्रमुच्यते
किमर्थं च महत्त्वेतत्कौतुकं वक्तुमर्हसि
यस्याः संश्रवणादेव मुच्यते सर्वपातकैः
पुरा गौर्या समासक्तं ज्ञात्वा देवाः सवासवाः
वीर्यं यदि त्रिनेत्रस्य क्षेत्रे गौर्याः पतिष्यति
संततेस्तु विनाशाय ततो गच्छामहे वयम्
एवं संमंत्र्य देवास्ते कैलासं पर्वतं गताः
अथ देवगणाः सर्वे वञ्चयित्वा च तं गणम् 7.3.52.
गत्वा वायो भवं ब्रूहि न कार्या संततिस्त्वया
ततो वायुर्द्रुतं गत्वा स्थितो यत्र महेश्वरः
ततस्तु भगवाञ्छर्वो व्रीडया परया युतः
ततो गौरी सुदुःखार्ता शशाप त्रिदशालयान्
तस्मात्तेऽपि भविष्यन्ति सन्तानेन विवर्ज्जिताः
यस्माद्वायो समायातः स्थानेऽस्मिञ्जनवर्जिते
एवमुक्त्वा ततो दीर्घं भर्तुः कोपपरायणा
सुतार्थं सा तपस्तेपे यतवाक्कायमानसा
इन्द्राद्यैर्विबुधैः सार्द्धं तदंतिकमुपागमत्