पिता मे निहतो यस्मात्क्षत्रियैस्तापसो द्विजः
क्षत्त्रहीनामहं पृथ्वीं प्रदास्ये सलिलं पितुः
तस्मात्सर्वं प्रयत्नेन श्राद्धं तत्र समाचरेत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे रामतीर्थमाहात्म्यवर्णनंनामैकोनपंचाशत्तमोऽध्यायः
तीर्थानां यत्र संजाता कोटिः पार्थिव हेलया
यदा स्यात्कलिकालस्तु रौद्रो राजन्महीतले
तिस्रः कोट्योऽर्धकोटिश्च तीर्थानां भूमिवासिनाम्
पुष्करे च तथा कोटिः कुरुक्षेत्रे च पार्थिव राजन्नेतानि रक्षंति सर्वे देवाः सवासवाः
यदा यदा भयार्त्तानि म्लेच्छस्पर्शात्समंततः
कोटितीर्थानि त्रीण्येव तत्र जातानि भूतले
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्
तत्र स्नानादिकं सर्वं जपहोमादिकं च यत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे कोटितीर्थप्रभाववर्णनंनाम पंचाशत्तमोऽध्यायः
तीर्थं पापहरं नृणां निशानाथेन निर्मितम्
प्रतिज्ञातं यदा राजन्ग्रहणे चंद्रसूर्ययोः
तदा भयान्वितश्चन्द्रो मत्वा दैत्यं दुरासदम्
तत्र भित्त्वा गिरेः शृंगे कृत्वा विवरमुत्तमम्
ततः कालेन महता तुष्टस्तस्य महेश्वरः
बलवानेष दुर्धर्षः प्रकृत्या सिंहिकासुतः
सांप्रतं भक्षितं तेन पीयूषं सुरसत्तम
पीयमानेऽमृते देव देवैः पूर्वं पराजितैः
अपिबच्चामृतं राहुस्तेनास्य मृत्युवर्जितम्
ततो देवैः कृतं साम ग्रहमध्ये प्रतिष्ठितः 7.3.51.
भयात्तस्य सुरश्रेष्ठ भित्त्वा शृंगं गिरेरिदम् तस्मादत्र प्रसादं मे कुरु कामनिषूदन
करिष्यति ग्रहं नूनं राहुः कोपपरायणः
ग्रहणे तव संप्राप्ते स्नानदानादिकाः क्रियाः
ताभिस्तव न संतापः स्वल्पोऽप्येवं भविष्यति
ग्रहणे तव संजाते मम वाक्यादसंशयम् चन्द्रोद्भेदमिति ख्यातं तीर्थं लोके भविष्यति
ग्रहणे तव संप्राप्ते योऽत्र स्नानं करिष्यति
यो वा सोमदिने स्नानं दर्शनं तत्र चाचरेत्