वैष्णवो विष्णुपूजां च कुर्वञ्छृण्वन्हरेः कथाम् कथाभिः पुण्ययुक्ताभिर्जागृयाच्छर्वरीं नरः
ततः प्रभाते विमले स्नात्वा विधिवदादरात्
स्वर्णं चान्नं च वासांसि यो दद्याच्छ्रद्धयाऽन्वितः
वर्षेवर्षे तु कर्तव्यो जागरः पुण्यतत्परैः
हरिः पूज्यो द्विजाः सम्यक्संतोष्याः शक्तितो नरैः भवंति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् 2.8.6.
तत्र स्नातो दिवं याति अत्र स्नातः सुखी भवेत
त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते
भूतानामिह सर्वेषां दुःखोपहतचेतसाम्
सप्तावरान्सप्तपरान्पुरुषश्चात्मनासह
जात्यंधैरिह ते तुल्यास्तथा पंगुभिरेव च
वर्णानां ब्राह्मणो यद्वत्तथा तीर्थेषु संगमः
अत्र स्नानेन दानेन यथा शक्त्या जितेंद्रियः
नरो वा यदि वा नारी विधिवत्स्नानमाचरेत्
यथा वह्निर्दहेत्सर्वं शुष्कमार्द्रमथापि वा
एकतः सर्वतीर्थानि नानाविधिफलानि वै 2.8.6.
सर्वतीर्थावगाहस्य फलं यादृक्स्मृतं श्रुतौ
गोप्रताराभिधं तीर्थमपरं वर्ततेऽनघ
यत्र स्नानेन दानेन न शोचति नरः क्वचित्
वाराणस्यां यथा विद्वन्वर्त्तते मणिकर्णिका
नैमिषे चक्रवापी तु यथा तीर्थतमा स्मृता
यत्र रामाज्ञया विद्वन्साकेतनगरीजनाः
कथं च राघवो विद्वन्नेतत्कथय सुव्रत
यथाजगाम रामोऽसौ स्वर्गं स च पुरीजनः
पुरा रामो विधायैव देवकार्य्यमतंद्रितः
ततो निशम्य चारेण वानराः कामरूपिणः 2.8.6.
देवगंधर्वपुत्राश्च ऋषिपुत्राश्च वानराः
ते राममनुगत्योचुः सर्वे वानरयूथपाः
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ
श्रुत्वा तु वचनं तेषामृक्षवानररक्षसाम्
यावत्प्रजा धरिष्यंति तावदेव विभीषण