स त्वं पापसमाचारो बाल्यात्प्रभृति पार्थिव
सर्वतीर्थाभिषिक्तस्त्वं यदा स्यान्नृपसत्तम
प्रभासादीनि तीर्थानि यानि संति धरातले
मनसा गच्छ दुर्गाणि ददद्दानमनुत्तमम् यन्न याति नृणां राजंस्तीर्थस्नानादिना भुवि
तीर्थयात्रापरो भूत्वा परिबभ्राम मेदिनीम् 7.3.48.
नियतो नियताहारो ददद्दानानि भूरिशः
कस्यचित्त्वथ कालस्य तीर्थयात्रानुषंगतः
स स्नानमकरोत्तत्र श्रद्धापूतेन चेतसा
विमुक्ताः पितरो रौद्रान्नरकात्सुप्रहर्षिताः
तमूचुस्तारिताः सर्वे वयं पुत्र त्वयाऽधुना
आत्मा च पार्थिवश्रेष्ठ स्नानाच्च जलतर्पणात्
कुलसंतारणंनाम तीर्थमेतद्भविष्यति आगच्छानेन देहेन तीर्थस्यास्य प्रभावतः
तं विमानमथारुह्य गतः स्वर्गं च तैः सह
एष प्रभावो राजर्षे कुलसंतारणस्य च
स्वदेहेन गतः स्वर्गमेतन्मे कौतुकं महत् ॥ 7.3.48.
स स्नातो यत्र भूपालस्तन्महच्छ्रेयसे परम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे तृतीयेऽर्बुदखंडे कुलसंतारणतीर्थमाहात्म्यवर्णनंनामाष्टचत्वारिंशोऽध्यायः
तत्र स्नातस्य मर्त्त्यस्य जायते पापसंक्षयः
पितॄणां च परा तुष्टिर्यावदाभूतसंप्लवम्
तेन पूर्वं तपस्तप्तं शत्रूणामिच्छता क्षयम्
तपस्तुष्टो महादेवो गते वर्षशतत्रये
ततः पाशुपतं नाम तस्यास्त्रं परमं ददौ
अब्रवीद्वचनं चापि प्रहस्य वृषभध्वजः
अस्त्रेणानेन युक्तस्त्वमजेयः सर्वदेहिनाम्
एतज्जलाशयं पुण्यं त्रैलोक्ये सचराचरे
येऽत्र श्राद्धं करिष्यंति पौर्णमास्यां समाहिताः
पितृमेधफलं तेषामशेषं च भविष्यति 7.3.49.
रामोऽप्यसूदयत्क्षत्रं पितृदुःखेन दुःखितः
त्रिःसप्त तर्पयामास पितॄंस्तत्र प्रहर्षितः
दृष्ट्वा मातुः क्षतान्यंगे त्रिःसप्त मनुजाधिप