यस्तत्र कुरुते श्राद्धं विशेषादिन्दुसंक्षये
तत्र दानं प्रशंसंति तिलानां मुनिपुंगवाः 7.3.47.
अर्बुदे गौतमी यात्रा सिंहस्थे च बृहस्पतौ
षष्टिवर्षसहस्राणि भागीरथ्यवगाहने
इति श्रीस्कान्दे महापुराण एकाशातिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे गौतमाश्रमतीर्थमाहात्म्यवर्णनंनाम सप्तचत्वारिंशोऽध्यायः
यत्र स्नातो नरः सम्यक्कुलं तारयतेऽखिलम्
दश पूर्वान्भविष्यांश्च तथात्मानं नृपोत्तम
आसीदप्रस्तुतो नाम राजा पूर्वं स पापकृत्
तस्मिञ्छासति लोकानां नासीत्सौख्यं कदाचन
न्यायतोऽन्यायतो वापि करोति धनसंग्रहम्
ततो वार्धक्यमापन्नस्तथापि न शमं गतः तं प्रसुप्तं समासाद्य नारकेयैः सुदुःखितैः
दानयज्ञतपःशीलाः स्वदारनिरतास्तथा
स्वकर्मभिः कुलांगार दिवं प्राप्ता यथार्हतः तस्मादुद्धर नः सर्वान्कृत्वा किंचिच्छुभार्चनम्
कर्मभिस्तव पापात्मन्वयं नरकमाश्रिताः
एवमुक्त्वा च ते सर्वे पितरस्तु सुदुःखिताः 7.3.48.
ततो दुःखमनुप्राप्तः पितृवाक्यानि संस्मरन्
कथं ते कुशलं राज्ये शरीरे वा पुरेऽथवा
राजोवाच मया दृष्टोऽद्य स्वप्नांते पिता ह्यथ पितामहः
उपालब्धोऽस्मि तैः सर्वैस्तव कर्मभिरीदृशैः
अथान्ये दश यास्यन्ति भविष्याश्च भवानपि
एवमुक्तः प्रबुद्धोऽहं पितृभिर्वरवर्णिनि
इन्दुमत्युवाच सत्यमेतन्महाराज यदुक्तोऽसि पितामहैः
यथा सुपुत्रमासाद्य तरंति पितरो नृप
स त्वमाहूय विप्रेंद्रान्धर्मशास्त्रविचक्षणान्
आनयामास राजाऽसौ ततो विप्राननेकशः उवाच विनयोपेतो भार्यया सहितो हितान्॥ 7.3.48.
स्वर्गं यांति सुपुत्रेण तारिताः प्रोच्यतां स्फुटम्
निरयस्था दिवं यांति यद्यपि स्युः सुपापिनः
यत्किंचिदत्र कर्त्तव्यं प्रोच्यतामखिलं हि तत्
तथोक्तास्ते नृपेंद्रेण ब्राह्मणाः सत्यवादिनः
दीक्षा ग्राह्या नृपश्रेष्ठ पुरश्चरणमादितः