तं दृष्ट्वा जायते मर्त्यो मेधावी मतिमाञ्छुचिः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे व्यासतीर्थमाहात्म्यवर्णनंनाम षट्चत्वारिंशोऽध्यायः
यत्र पूर्वं तपस्तप्तं गौतमेन महात्मना
पुराऽऽसीद्गौतमो नाम मुनिः परमधार्मिकः
भक्त्याऽऽराधयमानस्य निर्भिद्य धरणीतलम्
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी वरं वरय भद्रं ते यत्ते मनसि वर्तते
सदा कार्यं हि सान्निध्यं यदि तुष्टो मम प्रभो
यस्त्वां पश्यति सद्भक्त्या ब्रह्मलोकं स गच्छतु
कृष्णायां ब्राह्मणश्रेष्ठ स यास्यति परां गतिम्
एवमुक्त्वा ततो वाणी विरराम महीपते तत्र स्नातो नरः सद्यः कुलं तारयतेऽखिलम्
यस्तत्र कुरुते श्राद्धं विशेषादिन्दुसंक्षये
तत्र दानं प्रशंसंति तिलानां मुनिपुंगवाः 7.3.47.
अर्बुदे गौतमी यात्रा सिंहस्थे च बृहस्पतौ
षष्टिवर्षसहस्राणि भागीरथ्यवगाहने
इति श्रीस्कान्दे महापुराण एकाशातिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे गौतमाश्रमतीर्थमाहात्म्यवर्णनंनाम सप्तचत्वारिंशोऽध्यायः
यत्र स्नातो नरः सम्यक्कुलं तारयतेऽखिलम्
दश पूर्वान्भविष्यांश्च तथात्मानं नृपोत्तम
आसीदप्रस्तुतो नाम राजा पूर्वं स पापकृत्
तस्मिञ्छासति लोकानां नासीत्सौख्यं कदाचन
न्यायतोऽन्यायतो वापि करोति धनसंग्रहम्
ततो वार्धक्यमापन्नस्तथापि न शमं गतः तं प्रसुप्तं समासाद्य नारकेयैः सुदुःखितैः
दानयज्ञतपःशीलाः स्वदारनिरतास्तथा
स्वकर्मभिः कुलांगार दिवं प्राप्ता यथार्हतः तस्मादुद्धर नः सर्वान्कृत्वा किंचिच्छुभार्चनम्
कर्मभिस्तव पापात्मन्वयं नरकमाश्रिताः
एवमुक्त्वा च ते सर्वे पितरस्तु सुदुःखिताः 7.3.48.
ततो दुःखमनुप्राप्तः पितृवाक्यानि संस्मरन्
कथं ते कुशलं राज्ये शरीरे वा पुरेऽथवा
राजोवाच मया दृष्टोऽद्य स्वप्नांते पिता ह्यथ पितामहः
उपालब्धोऽस्मि तैः सर्वैस्तव कर्मभिरीदृशैः
अथान्ये दश यास्यन्ति भविष्याश्च भवानपि