यथा वयं त्वया सार्द्धमसत्या न चतुर्मुख
अथ ब्रह्मा प्रहृष्टात्मा दृष्ट्वा तं मुनिदारकम्
ततस्ते मुनयो हृष्टास्तमादाय गृहं प्रति 7.3.41.
अथ तस्य पिता तत्र मृकंडो मुनिसत्तमः
हा पुत्रपुत्र करुणं रुदित्वा धर्मवत्सलः
अकृत्वापि क्रियाः कार्याः कथं मृत्युवशं गतः
एवं विलपतस्तस्य बहुधा नृपसत्तम
अथासौ प्रययौ बालः प्रहृष्टेनांतरात्मना
पप्रच्छांकं समारोप्य चिरागमन कारणम् दर्शनं ब्रह्मलोकस्य पद्मयोनेर्वरं तथा
तस्मात्सत्यं मदर्थे ते व्येत्वसौ मानसो ज्वरः
सोऽहमाराधयिष्यामि तथैव चतुराननम्
अमृतस्रावि तद्वाक्यं श्रुत्वा पुत्रस्य स द्विजः
मार्क्कंडोऽपि द्रुतं गत्वा रम्य मर्बुदपर्वतम् 7.3.41.
तस्याश्रमपदे पुण्ये श्रावणे मासि पार्थिव पितृमेधफलं तस्य सकलं स्यादसंशयम्
ऋषियोगेन यस्तत्र तर्पयेद्ब्राह्मणोत्तमान्
यः स्नानं कुरुते तत्र सम्यक्छ्रद्धासमन्वितः
ततो गच्छेन्नृपश्रेष्ठ लिंगं पापहरं परम्
तस्मिन्स्पृष्टेऽथ वा दृष्टे पूजिते च विशेषतः
सर्वपापविनिर्मुक्तः शिवलोके महीयते
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्ड उद्दालकेश्वरमाहात्म्यवर्णनंनाम द्विचत्वारिंशोऽध्यायः
सिद्धैस्तु स्थापितं लिंगं सर्वपातकनाशनम्
तत्रास्ति शोभनं कुण्डं सुनिर्मलजलान्वितम्
यंयं काममभिध्यायंस्तत्र स्नाति नरो नृप
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे सिद्धेश्वरमहिमवर्णनंनाम त्रयश्चत्वारिंशोऽध्यायः
पुलस्त्य उवाच यत्र पूर्वं तपस्तप्तं दिग्गजैर्भावितात्मभिः
भूभारधरणैश्चान्यैरैरावणमुखैर्नृप
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे गजतीर्थप्रभाववर्णनंनाम चतुश्चत्वारिंशोऽध्यायः
यत्ख्यातिर्विबुधैः सर्वैः स्वयमेव व्यधीयत
तत्र यः कुरुते श्राद्धममावास्यां विशेषतः पितॄन्स तारयत्येव प्राप्तानपि सुदुर्गतिम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे श्रीदेवखातोत्पत्तिमाहात्म्यवर्णनंनाम पंचचत्वारिंशोऽध्यायः