असकृत्स मृकण्डेन यावत्पृष्टो द्विजोत्तमः
अस्य बालस्य चिह्नानि यानि काये द्विजोत्तम
षण्मासेनास्य बालस्य नूनं मृत्युर्भविष्यति अनृतं नोक्तपूर्वं मे वैरिष्वपि कदाचन
मृकंडेनाभ्यनुज्ञात इष्टं देशं जगाम ह ॥ 7.3.41.
मृकंडोपि सुतं ज्ञात्वा ततः क्षीणायुषं नृप
श्रुताध्ययनसंपन्नं यंयं पश्यसि चाग्रतः
ततश्चक्रे ब्रह्मचारी पितुर्वाक्यं विशेषतः
बालं वृद्धं युवानं च यंयं पश्यति चक्षुषा
कस्यचित्त्वथ कालस्य तस्याश्रमसमीपतः
अथ तान्सत्वरं गत्वा वंदयामास पार्थिव
दीर्घायुर्भव तैरुक्तः स बालस्तुष्टितत्परैः
तेषां मध्येंऽगिरानाम दिव्यज्ञानसमन्वितः
अथ तानब्रवीत्सर्वान्मुनीन्किंचित्सविस्मयः
गमिष्यति कुमारोऽयं निधनं पंचमे दिने 7.3.41.
यथाऽयं चिरजीवी स्यात्तथा नीतिर्विधीयताम्
बालकं तं समादाय ब्रह्मलोकं गतास्तदा
तेषामनंतरं तेन बालके नाभिवादितः
ततः सप्तर्षयो हृष्टाः स्वचित्ते नृपसत्तम
अर्बुदं पर्वतं नाम तस्य तीर्थेषु वै गताः
अथागत्य द्रुतं दूराद्बालेनानेन वंदिताः पंचमे दिवसेऽस्यापि मृत्युर्देव भविष्यति
यथा वयं त्वया सार्द्धमसत्या न चतुर्मुख
अथ ब्रह्मा प्रहृष्टात्मा दृष्ट्वा तं मुनिदारकम्
ततस्ते मुनयो हृष्टास्तमादाय गृहं प्रति 7.3.41.
अथ तस्य पिता तत्र मृकंडो मुनिसत्तमः
हा पुत्रपुत्र करुणं रुदित्वा धर्मवत्सलः
अकृत्वापि क्रियाः कार्याः कथं मृत्युवशं गतः
एवं विलपतस्तस्य बहुधा नृपसत्तम
अथासौ प्रययौ बालः प्रहृष्टेनांतरात्मना
पप्रच्छांकं समारोप्य चिरागमन कारणम् दर्शनं ब्रह्मलोकस्य पद्मयोनेर्वरं तथा
तस्मात्सत्यं मदर्थे ते व्येत्वसौ मानसो ज्वरः