स कथं पूजितस्तेन शंभुर्मे कौतुकं महत्
दर्शयन्नात्मनो बाणं तस्यासौ पृष्ठतः स्थितः
ततो वाराणसीं प्राप्तस्तद्भयात्त्रिपुरांतकः
ततः प्रयागमापन्नः केदारं च ततः परम्
गोकर्णं च प्रभासं च पुण्यं च कृमिजांगलम्
किं वा तेन बहूक्तेन तीर्थान्यायतनानि च
यत्रयत्र महादेवस्तद्भयान्नृप गच्छति
कस्यचित्त्वथकालस्य पुनः प्राप्तोऽर्बुदं प्रति आकुंचितैकपादं च स्थिरदृष्टिं नृपो त्तम ॥ 7.3.40.
अथाऽसौ भगवाञ्छांतः प्रियादुःखसमन्वितः
तस्य कोपाभिभूतस्य तृतीयान्नयनान्नृप
सचापः सशरो राजंस्तस्मिन्पर्वतरोधसि
कैलासं पर्वतश्रेष्ठं जगाम सुरपूजितः व्यलपत्करुणं दीना पतिशोकपरि प्लुता
ततो दारूणि चाहृत्य चितिं कृत्वा नराधिप तावदाकाशगां वाणीं शुश्राव च यशस्विनी
वागुवाच भूयः प्राप्स्यसि भर्त्तारं कामें तुष्टेन शंभुना
सा श्रुत्वा तां तदा वाणीं समुत्तस्थौ समुमध्यमा व्रतैर्दानैर्जपैर्होमैरुपवासैस्तथा परैः
ततो वर्ष सहस्रांते तुष्टस्तस्या महेश्वरः
अक्षतांगः पुनः कामः कांतो मे जायतां पतिः
एवमुक्ते तया वाक्ये तत्क्षणात्समुपस्थितः 7.3.40.
इक्षुयष्टिमयं चापं पुष्पबाणसमन्वितम्
ततो रतिसमायुक्तः प्रणिपत्य महेश्वरम्
स दृष्ट्वा शिवमाहात्म्यं श्रद्धां कृत्वा नृपोत्तम
यस्मिन्दृष्टे महाराज नारी वा यदि वा नरः
एवमेतन्मया ख्यातं यन्मां त्वं परिपृच्छसि
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे कामेश्वरमाहात्म्यवर्णनंनाम चत्वारिंशोऽध्यायः
यत्र पूर्वं तपस्तप्तं मार्कंडेन महात्मना
मृकण्डो ब्राह्मणोनाम पुराऽऽसीच्छंसितव्रतः
सर्वलक्षणसंपूर्णः शांतः सूर्यसमप्रभः
आगतो ब्राह्मणो ज्ञानी कश्चित्सामुद्रविच्छुभः
आनासाग्रशिखाग्राभ्यां चिरं चैवावलोकितः
अथाऽब्रवीच्चिरं दृष्टस्त्वया पुत्रो मम द्विज