किं दानैर्विविधैर्दत्तैः किं यज्ञैश्च सुविस्तरैः 7.3.39.
फाल्गुनान्तचतुर्द्दश्यां सुमहेश्वरसन्निधौ
शृणु राजन्पुरा वृत्तं तत्राश्चर्यं यदुत्तमम्
भिक्षार्थमागतस्तत्र लोकैरन्यैः समन्वितः
ततो रोग परिक्लेशाद्भोजनं न चकार सः सक्तून्कृत्वोपधाने तान्स च सुप्तो निशागमे
ततो निद्राभिभूतस्य सारमेयो जहार च
अथासौ विस्मयाद्राजन्पंचत्वं समुपस्थितः
भीमोनाम नृपश्रेष्ठ दमयन्तीपिता हि यः
फाल्गुनांतचतुर्दश्यां वर्षे वर्षे जगाम सः
अचलेश्वरसान्निध्ये ददौ सक्तूंस्ततो बहून्
अथ ते मुनयः सर्वे गालवप्रमुखा नृप 7.3.39.
कस्मात्सक्तून्प्रमुक्त्वा त्वं नान्यद्दातुमिहेच्छसि
सक्तुदानस्य माहात्म्यं मुनीनां भावितात्मनाम्
पूर्वं भक्त्या विहीनस्य शुना वै सक्तवो हृताः
सांप्रतं भक्तिद त्तानां किं स्याज्जानामि नो फलम् तीर्थेऽस्मिन्भक्तिसंयुक्तः सत्येनात्मानमालभे
पुलस्त्य उवाच ततस्ते मुनयो हृष्टाः साधुसाध्विति चाब्रुवन्
एष प्रभावो राजर्षे सक्तुदानस्य कीर्त्तितः
यश्चैतच्छृणुयाद्भक्त्या कथ्यमानं द्विजाननात्
यस्मिन्दृष्टे सदा मर्त्यः सुरूपः सुप्रभो भवेत्
वालखिल्याश्रमं प्राप्तो यत्र लिंगं पपात ह
स कथं पूजितस्तेन शंभुर्मे कौतुकं महत्
दर्शयन्नात्मनो बाणं तस्यासौ पृष्ठतः स्थितः
ततो वाराणसीं प्राप्तस्तद्भयात्त्रिपुरांतकः
ततः प्रयागमापन्नः केदारं च ततः परम्
गोकर्णं च प्रभासं च पुण्यं च कृमिजांगलम्
किं वा तेन बहूक्तेन तीर्थान्यायतनानि च
यत्रयत्र महादेवस्तद्भयान्नृप गच्छति
कस्यचित्त्वथकालस्य पुनः प्राप्तोऽर्बुदं प्रति आकुंचितैकपादं च स्थिरदृष्टिं नृपो त्तम ॥ 7.3.40.
अथाऽसौ भगवाञ्छांतः प्रियादुःखसमन्वितः
तस्य कोपाभिभूतस्य तृतीयान्नयनान्नृप