अब्रवीत्पातितं लिंगं वालखिल्यैः पिनाकिनः 7.3.39.
तस्मान्मया समायुक्ताः सर्वे तत्र दिवौकसः
यावन्नो जायते लोके प्रलयोऽ कालसंभवः
वालखिल्याश्रमे यत्र तल्लिंगं निपपात ह
नमस्ते सर्ववासाय सर्वयज्ञमयाय च
सर्वेश्वराय देवाय परमज्योतिषे नमः
त्र्यंबकाय च भीमाय पिनाकवरपाणये
संसारे विबुधश्रेष्ठ जगत्स्थावरजंगमम् यत्त्वया न प्रभो व्याप्तं सृष्टिसंहारकारणात्
पृथिव्यादीनि भूतानि त्वया सृष्टानि कामतः
प्रसीद भगवंस्तस्माल्लिंगमेतत्सुरेश्वर
कथं भूयः प्रगृह्णामि यावच्छुद्धिर्न जायते ॥ 7.3.39.
शक्तोऽहं वालखिल्यानां निग्रहं कर्त्तुमञ्जसा
अचलं लिंगमेतद्धि नोद्धर्त्तुं शक्यते विभो
यदि मे त्वं पुरा लिंगं पूजयेथाः पितामह
ततो नौ शांतिमागच्छेज्जगत्स्थावरजंगमम्
ततस्तं पूजयामास ब्रह्मा पूर्वं सुभक्तितः
ब्रह्मणोऽनन्तरं विष्णुस्ततः शक्र स्ततोऽपरे
ततस्ते दारुणोत्पाता उपशांताश्च तत्क्षणात्
अथोवाच महादेवः सर्वांस्तांस्त्रिदशालयान्
स्वर्गं यास्यंति देवेश नाशं यास्यति किल्बिषम्
तस्माद्वज्रेण देवेन्द्रस्तवैतल्लिंगमुत्तमम् 7.3.39.
एवं करोतु देवेन्द्रः सर्वधर्मविवृद्धये
पुलस्त्य उवाच ततः संछादयामास वज्रेण त्रिदशाधिपः
अद्यापि वज्रसंस्पर्शात्तत्सान्निध्यं गतो नरः
माहात्म्यं कीर्तितं यस्मात्तल्लिंगे शंकरेण तु
ततःप्रभृति लिंगस्य मर्त्त्ये पूजा व्यजायत
एवमेतत्पुरावृत्तमर्बुदे पर्वतोत्तमे
फाल्गुनान्तचतुर्द्दश्यां नैवेद्यं नूतनैर्यवैः
ब्राह्मणान्भोजयेद्यस्तु भक्त्या तस्मिन्नवैर्यवैः
तत्र दानं प्रशंसन्ति सक्तूनां मुनिसत्तमाः