चक्रुरालिंगनं काश्चिच्चुम्बनं च तथापराः 7.3.39.
स चापि भगवाञ्छम्भुर्निष्कामः परमेश्वरः
स चापि भगवाच्छंभुस्तासां सरति प्राङ्मुखः
अथ ते मुनयो दृष्ट्वा विकृतिं दारसंभवाम्
ददुः शापं सुसंतप्ताः कलत्रार्थे परंतप
विडम्बयसि नो दारानजस्रं चास्य दर्शनात्
ब्रह्मवाक्येन राजर्षे चकम्पे वसुधा ततः
ततो देवगणाः सर्वे भयत्रस्ता नराधिप
तत पितामहं जग्मु स्तस्मै सर्वं न्यवेदयन्
किं निमित्तं सुरश्रेष्ठ न जानीमो वयं प्रभो
अब्रवीत्पातितं लिंगं वालखिल्यैः पिनाकिनः 7.3.39.
तस्मान्मया समायुक्ताः सर्वे तत्र दिवौकसः
यावन्नो जायते लोके प्रलयोऽ कालसंभवः
वालखिल्याश्रमे यत्र तल्लिंगं निपपात ह
नमस्ते सर्ववासाय सर्वयज्ञमयाय च
सर्वेश्वराय देवाय परमज्योतिषे नमः
त्र्यंबकाय च भीमाय पिनाकवरपाणये
संसारे विबुधश्रेष्ठ जगत्स्थावरजंगमम् यत्त्वया न प्रभो व्याप्तं सृष्टिसंहारकारणात्
पृथिव्यादीनि भूतानि त्वया सृष्टानि कामतः
प्रसीद भगवंस्तस्माल्लिंगमेतत्सुरेश्वर
कथं भूयः प्रगृह्णामि यावच्छुद्धिर्न जायते ॥ 7.3.39.
शक्तोऽहं वालखिल्यानां निग्रहं कर्त्तुमञ्जसा
अचलं लिंगमेतद्धि नोद्धर्त्तुं शक्यते विभो
यदि मे त्वं पुरा लिंगं पूजयेथाः पितामह
ततो नौ शांतिमागच्छेज्जगत्स्थावरजंगमम्
ततस्तं पूजयामास ब्रह्मा पूर्वं सुभक्तितः
ब्रह्मणोऽनन्तरं विष्णुस्ततः शक्र स्ततोऽपरे
ततस्ते दारुणोत्पाता उपशांताश्च तत्क्षणात्
अथोवाच महादेवः सर्वांस्तांस्त्रिदशालयान्
स्वर्गं यास्यंति देवेश नाशं यास्यति किल्बिषम्