उक्तवानसि येनैतत्साश्चर्य्यं मम मानसम्
विस्तरेण मम ब्रूहि माहात्म्यं परमाद्भुतम्
शृणु संगममाहात्म्यं विप्रेंद्र परमाद्भुतम्
दशकोटिसहस्राणि दशकोटिशतानि च निवसंति सदा विप्र स्कन्दादवगतं मया
देवतानां सुराणां च सिद्धानां योगिनां तथा 2.8.6.
तस्मिन्संगमसलिले नरः स्नात्वा समाहितः
हुत्वा वैष्णवमंत्रेण शुचिर्यत्फलमाप्नुयात्
अश्वमेधसहस्रस्य वाजपेयशतस्य च
सुवर्णदाने यत्पुण्यमहन्यहनि तद्भवेत्
अमावास्यां पौर्णमास्यां द्वादश्योरुभयोरपि
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान्
लंबतेऽवाक्छिरा यस्तु युगानामयुतं पुमान्
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि
पौषे मासि विशेषेण स्नानं बहुफलप्रदम्
पौषे मासि विशेषेण यः कुर्यात्स्नानमादृतः स याति ब्रह्मणः स्थानं पुनरावृत्तिवर्जितम् ।।2.8.6.
पौषे मासे तु यो दद्याद्घृताढ्यं दीपमुत्तमम्
नानाजन्मार्जितं पापं स्वल्पं बह्वपि वा भवेत्
आयुरारोग्यमैश्वर्यं संततीः सौख्यमुत्तमम्
यस्तु शुक्लत्रयोदश्यां पौषेऽत्र प्रयतो व्रती
जागरं विदधद्रात्रौ दीपं दत्त्वा तु सर्वशः
वैष्णवो विष्णुपूजां च कुर्वञ्छृण्वन्हरेः कथाम् कथाभिः पुण्ययुक्ताभिर्जागृयाच्छर्वरीं नरः
ततः प्रभाते विमले स्नात्वा विधिवदादरात्
स्वर्णं चान्नं च वासांसि यो दद्याच्छ्रद्धयाऽन्वितः
वर्षेवर्षे तु कर्तव्यो जागरः पुण्यतत्परैः
हरिः पूज्यो द्विजाः सम्यक्संतोष्याः शक्तितो नरैः भवंति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् 2.8.6.
तत्र स्नातो दिवं याति अत्र स्नातः सुखी भवेत
त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते
भूतानामिह सर्वेषां दुःखोपहतचेतसाम्
सप्तावरान्सप्तपरान्पुरुषश्चात्मनासह
जात्यंधैरिह ते तुल्यास्तथा पंगुभिरेव च