त्रैलोक्यस्य प्रभुरयं तन्निष्क्रम्य कथञ्चन
प्रोवाच मधुरं वाक्यं सत्यमेतत्त्व योदितम्
तस्माद्वरय भद्रं ते वरं मत्तो यथेप्सितम्
तस्मादेकं दिनं देहि क्रीडनार्थमनेन तु
चैत्रशुक्लत्रयोदश्यामहोरात्रं सुरेश्वरि
शिवगंगाभिधानं च तस्मात्कुण्डं धरातले
ततो विसर्जयामास तामालिंग्य मुहुर्मुहुः
गतायामथ गंगायामधोवक्त्रं सुलज्जितम्
एवमेतत्पुरावृत्तं तस्मिन्कुण्डे नराधिप
शुक्लायां चैत्रमासे तु स्नानं तत्र समाचरेत् 7.3.38.
यत्र संक्षयमायाति सर्वं तत्राशुभं कृतम् तद्रोमसंख्ययास्वर्गे स पुमान्वसति ध्रुवम्
लिंगं संस्थापयामास स्थिररूपो महेश्वरः
कस्मात्तत्पातितं लिंगं वालखिल्यैर्महात्मभिः
एतन्मे कौतुकं सर्वं यथावद्वक्तुमर्हसि
अत्र ते कीर्तयिष्यामि पूर्ववृत्तं कथांतरम्
यदा पञ्चत्वमापन्ना सती सत्यपराक्रमा
तदा कामो द्रुतं गृह्य पुष्पचापं तमभ्यगात्
आपतन्तं भयात्तस्य प्रणष्टस्त्रिपुरांतकः
वालखिल्याश्रमं प्राप्तः पुण्यं सद्वृक्षशोभितम्
दिग्वासाः सुप्रियालापस्ततस्ताः काममोहिताः बभूवुश्चानिशं राजन्मां भजस्वेति चाब्रुवन्
चक्रुरालिंगनं काश्चिच्चुम्बनं च तथापराः 7.3.39.
स चापि भगवाञ्छम्भुर्निष्कामः परमेश्वरः
स चापि भगवाच्छंभुस्तासां सरति प्राङ्मुखः
अथ ते मुनयो दृष्ट्वा विकृतिं दारसंभवाम्
ददुः शापं सुसंतप्ताः कलत्रार्थे परंतप
विडम्बयसि नो दारानजस्रं चास्य दर्शनात्
ब्रह्मवाक्येन राजर्षे चकम्पे वसुधा ततः
ततो देवगणाः सर्वे भयत्रस्ता नराधिप
तत पितामहं जग्मु स्तस्मै सर्वं न्यवेदयन्
किं निमित्तं सुरश्रेष्ठ न जानीमो वयं प्रभो