अभिप्रायोऽस्ति मे कश्चिज्जलाश्रयव्रतोद्भवः
तत्राहं जलमध्यस्थः स्थास्यामि जलतत्परः
स्वच्छोदकसमाकीर्णं सुतीर्थं सुसुखावहम्
व्रतव्याजेन देवेशो विवेश तदनन्तरम्
सा ध्याता तत्क्षणात्तत्र शिवेन सह संगता
व्रतव्याजेन राजेन्द्र न तु गौरी व्यजानत कैवल्यज्ञानसंपन्नस्तत्रायातः परिभ्रमन्
स तु दृष्ट्वा महादेवं जलस्थं व्रतधारिणम्
वक्त्रनेत्रविकारोऽयं किमस्य व्रतधारिणः
अथाऽपश्यद्ध्यानदृष्ट्या गंगासक्तं महेश्वरम्
तदा स कथयामास सर्वं हरविचेष्टितम् ॥ 7.3.38.
ततो देवी त्वरायुक्ता ययौ यत्र महेश्वरः
तां दृष्ट्वा कोपसंयुक्तां समायातां महेश्वरीम्
आवयोः संगमे देवी नारदेन निवेदिता
अत्यर्थं मानिनी ह्येषा साम्ना च वशवर्तिनी
तत्क्षणाज्जायते साध्वी तस्मात्सामपरा भव
एवमुक्ता च रुद्रेण जाह्नवी नृपसत्तम
प्रत्युद्ययौ सलज्जा च कृतांजलिपुरःसरा
पुराऽहं तव कांतेन निपतन्ती नभस्तलात्
भगीरथाभिधानस्य ततः स्नेहो व्यवर्धत
अधुना तव वाक्येन जानेऽहं न सुरेश्वरि 7.3.38.
त्रैलोक्यस्य प्रभुरयं तन्निष्क्रम्य कथञ्चन
प्रोवाच मधुरं वाक्यं सत्यमेतत्त्व योदितम्
तस्माद्वरय भद्रं ते वरं मत्तो यथेप्सितम्
तस्मादेकं दिनं देहि क्रीडनार्थमनेन तु
चैत्रशुक्लत्रयोदश्यामहोरात्रं सुरेश्वरि
शिवगंगाभिधानं च तस्मात्कुण्डं धरातले
ततो विसर्जयामास तामालिंग्य मुहुर्मुहुः
गतायामथ गंगायामधोवक्त्रं सुलज्जितम्
एवमेतत्पुरावृत्तं तस्मिन्कुण्डे नराधिप
शुक्लायां चैत्रमासे तु स्नानं तत्र समाचरेत् 7.3.38.