यत्र सा जाह्नवी गुप्ता तिष्ठते भूपसत्तम
तस्यां स्नातो नरः सम्यक्सर्वतीर्थफलं लभेत्
कस्मिन्काले समायाता परं कौतूहलं हि मे
अर्बुदेऽस्मिन्सदा स्थेयमचलेन त्वया विभो
तत्र संस्थापिते लिंगे स्वयं देवेन शंभुना
अतिकोपसमायुक्तैः कस्मिंश्चित्कारणांतरे
अचले तु मयात्रैव स्थातव्यं नात्र संशयः
अचलेश्वररूपस्य गंगा चित्ते व्यजायत
अथ जानाति नो गौरी मानिनी परमेश्वरी
उपायं सुमहद्ध्यात्वा जाह्नवीसंगसंभवम् 7.3.38.
अभिप्रायोऽस्ति मे कश्चिज्जलाश्रयव्रतोद्भवः
तत्राहं जलमध्यस्थः स्थास्यामि जलतत्परः
स्वच्छोदकसमाकीर्णं सुतीर्थं सुसुखावहम्
व्रतव्याजेन देवेशो विवेश तदनन्तरम्
सा ध्याता तत्क्षणात्तत्र शिवेन सह संगता
व्रतव्याजेन राजेन्द्र न तु गौरी व्यजानत कैवल्यज्ञानसंपन्नस्तत्रायातः परिभ्रमन्
स तु दृष्ट्वा महादेवं जलस्थं व्रतधारिणम्
वक्त्रनेत्रविकारोऽयं किमस्य व्रतधारिणः
अथाऽपश्यद्ध्यानदृष्ट्या गंगासक्तं महेश्वरम्
तदा स कथयामास सर्वं हरविचेष्टितम् ॥ 7.3.38.
ततो देवी त्वरायुक्ता ययौ यत्र महेश्वरः
तां दृष्ट्वा कोपसंयुक्तां समायातां महेश्वरीम्
आवयोः संगमे देवी नारदेन निवेदिता
अत्यर्थं मानिनी ह्येषा साम्ना च वशवर्तिनी
तत्क्षणाज्जायते साध्वी तस्मात्सामपरा भव
एवमुक्ता च रुद्रेण जाह्नवी नृपसत्तम
प्रत्युद्ययौ सलज्जा च कृतांजलिपुरःसरा
पुराऽहं तव कांतेन निपतन्ती नभस्तलात्
भगीरथाभिधानस्य ततः स्नेहो व्यवर्धत
अधुना तव वाक्येन जानेऽहं न सुरेश्वरि 7.3.38.