पठति श्रद्धयोपेतो यो वा भूमिपते नरः
यत्र नागैस्तपस्तप्तं रम्ये पर्वतरोधसि
कद्रूशापं पुरा श्रुत्वा नागाः सर्वे भयातुराः
मातृशापेन संतप्ता वयं पन्नगसत्तम
तयोक्तं ये तपोयुक्ता धर्मात्मानः सुसंयताः
न दहिष्यति तान्वह्निर्यज्ञे पारिक्षितस्य हि
तत्र यूयं तपोयुक्ता भवध्वं सुसमाहिताः
यस्याः संकीर्त्तनेनापि नश्यंति विपदो ध्रुवम्
तस्याः प्रसादतः सर्वे भविष्यथ गतज्वराः दैवो वा मानुषो वाऽपि नान्यो वो मुक्तिकारकः
प्रणम्य तं ततो जग्मुरर्बुदं पर्वतं प्रति
ते भित्त्वा धरणीपृष्ठं पर्वते तदनन्तरम् 7.3.37.
ततो धृतव्रताः सर्वे देवी भक्तिपरायणाः
तस्थुस्तत्र सदा होमं कुर्वन्तो जाप्यमुत्तमम्
दन्तोलूखलिनः केचिदश्मकुट्टास्तथा परे
गीतं वाद्यं तथा चक्रुरन्ये देवाः पुरस्तदा
ततो देवी सुसन्तुष्टा वाक्यमेतदुवाच ह
देव्युवाच परितुष्टास्मि वो वत्साः किमर्थं तप्यते तपः
नागराजसमादेशाच्छरणं त्वां समागताः
सा त्वं रक्ष भयात्तस्माच्छापवह्निसमुद्भवात् पारिक्षितस्य यज्ञे वः पावको भक्षयिष्यति
संतिष्ठत विना भीत्या भोगान्भुङ्ध्वं सुपुष्कलान्
समाप्ते च क्रतौ भूयो गंतारः स्वं निकेतनम् 7.3.37.
नागह्रदं तु तत्तीर्थमेतद्भावि धरातले
करिष्यति नरः स्नानं तस्य नाहिकृतं भयम्
ये भोगा भूतले ख्याता ये दिव्या ये च मानुषाः
देव्याः शरणमापन्नास्तस्थुस्तत्र नगोत्तमे
ततः कालेन महता सत्रे पारिक्षितस्य च
देव्या चैवाभ्यनुज्ञाताः प्रणिपत्य मुहुर्मुहुः
अद्यापि कृष्णपंचम्यां श्रावणे मासि पार्थिव
तस्मात्सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत्
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे नागोद्भवतीर्थमाहात्म्य वर्णनंनाम सप्तत्रिंशोऽध्यायः